________________
(१७) र्श्वचिन्तामणि
........."ताकारिणं । स्थानेनंतसुखोदयं विवरणं चक्रे नवांग्या यकैः श्रीमन्तोऽभयदेवसूरिगुरवस्तेऽतः परं जज्ञिरे ॥ १९-------- (१८) .........."जिनवल्लभ'शांगनोवल्लभो......"प्रियः यदीयगुणगौरवं श्रुतिपुटेन सौधोपमं निपीय
शिरसोऽधुनापि कुरुते न कस्तांडवं ॥ २०॥ तत्पट्टे जिनदत्तसूरिरभवद्योगीन्द्रचूडामणिर्मिथ्याध्वां(१९) तनिरुद्धदर्शन ........ अंबिकया न्यदेशिसुगुरुः क्षेत्रेऽत्र सर्वोत्तमः सेव्यः पुण्यवतां सतां सुचरणज्ञानश्रिया
सत्तमः॥ २१ ॥ ततः परं श्रीजिनचन्द्रसूरिर्बभूव नि:संग गुणास्तभूरिः। (२०) चिन्तामणि लितले यदीयेऽध्युवास वासादिव भाग्यलक्ष्म्याः ॥ २२॥ पक्षे लक्ष्यगते सुसाधनमपि
प्रेत्यापि दुःसाधनं दृष्टांतस्थितिबन्धबंधुरमपि प्रक्षीणदृष्टान्तकं । वादे वादिगतप्रमाणमपि यैर्वाक्यं (२१) प्रमाणस्थितं ते वागीश्वरपुंगवा जिनपतिप्रख्या बभूवुस्ततः ॥ २३ ॥ अथ जिनेश्वरसूरियतीश्वरा दिनकरा
इव गोभरभास्वराः। भुवि विबोधितसत्कमलाकराः समुदिता वियति . स्थितिसुन्दराः॥२४॥ जिनप्र(२२) बोधा हतमोहयोधा जने विरेजुर्जनितप्रबोधाः। ततः पदे पुण्यपदेऽदसीये गणेन्द्रचर्या यतिधम्मधुर्याः ॥
२५॥ निरंधानो गोभिः प्रकृतिजडधीनां विलसितं भ्रमभ्रश्यज्ज्योती रसदशकलाकेलि(२३) विकलः। उदीतस्तत्पट्टे प्रतिहततमःकुग्रहमतिर्नवीनोऽसौ चंद्रो जगति जिनचन्द्रो यतिपतिः ॥ २६ ॥
प्राकट्यं पंचमारे दधति विधिपथश्रीविलासप्रकारे धर्माधारे सुसारे विपुलगिरिवरे मानतुंगे विहा(२४) रे कृत्वा संस्थापनां श्रीप्रथमजिनपतेर्येन सौवैर्यशोभिश्चित्रं चक्रे जगत्यां जिनकुशलगुरुस्तत्पदेऽसावशोभि ॥
२७॥ बाल्येपि यत्र गणनायकलक्ष्मिकांताकेलिविलोक्य सरसा हृदि शारदापि । सौभाग्य(२५) तः सरभसं विललास सायं जातस्ततो मुनिपतिर्जिनपद्मसूरिः ॥ २८॥ दृष्टापदृष्टसुविशिष्टनिजान्य
शास्त्रव्याख्यानसम्यगवधाननिधानसिद्धिः। जज्ञे ततोऽस्तकलिकालजनासमानज्ञानक्रिया(२६) ब्धिजिनलब्धियुगप्रधानः ॥२९॥ तस्यासने विजयते समसूरिवर्यः सम्यग्दृगंगिगणरंजकचारुचर्यः।
श्रीजैनशासनविकासनभूरिधामा कामापनोदनमना जिनचन्द्रनामा। ३० । तत्कोपदेश(२७) वशतः प्रभुपार्श्वनाथप्रसादमुत्तममचीकरत---------- । श्रमिद्विहारपुरवस्थितिवच्छराजः श्रीसिद्धये
समतिसोदरदेवराजः॥३१॥महेन गरुणा चात्र वच्छराज: सबांधवः। प्रतिष्ठां कारयामास मंडनान्वय(२८) मंडनः॥ ३२ श्रीजिनचंद्रसूरीन्द्रा येषां संयमदायकाः। शास्त्रेष्वध्यापकास्तु श्रीजिनलब्धियत
३३॥ कर्त्तारोऽत्र प्रतिष्ठायास्ते उपाध्यायपुङ्गवाः। श्रीमंतो भुवनहिताभिधाना गुरुशासनात् ।। ३४ ॥ न(२९) यनचंद्रपयोनिधिभूमिते व्रजति विक्रमभूभृदनेहसि। बहुलषष्टिदिने शुचिमासगे महमचीकरदेनमयं
सुधीः ॥ ३५ श्रीपार्श्वनाथजिननाथसनाथमध्यः प्रासाद एष कलसध्वजमण्डितो(३०) र्द्ध:। निर्मापकोस्य गुरवोत्र कृतप्रतिष्ठा नंदंतु संघसहिता भुवि सुप्रतिष्ठाः॥ ३६ ॥
श्रीमद्भिर्भुवनहिताभिषेकवर्यैः
प्रशस्तीरेषात्र । कृत्वा विचित्रवृत्ता लिखिता श्रीकीर्तिरिव मूर्ता ॥ ३७॥ उत्कीर्णा च सुवर्णा ठक्कुरमा(३१) ल्हांगजेन पुण्यार्थं । वैज्ञानिकसुश्रावकवरेण वीधाभिधानेन ॥३८॥ इति विक्रमसंवत् १४१२ आषाढवदि
६ दिने। श्रीखरतरगच्छशृंगारसुगुरुश्रीजिनलब्धिसूरिपट्टालङ्कारश्रीजिनेन्दुसूरीणामुपदे(३२) शेन। श्रीमंत्रिवंशमंडन ठ० मंडननंदनाभ्यां। श्रीभुवनहितोपाध्यायानां पं० हरिप्रभगणि मोदमूर्तिगणि
हर्षमूर्त्तिगणि पुण्यप्रधानगणिसहितानां पूर्वदेशविहारश्रीमहातीर्थयात्रासंसूत्र(३३) णादिमहाप्रभावनया सकलश्रीविधिसंघसमानंदनाभ्यां। ठ० वच्छराज ठ० देवराजसुश्रावकाभ्यां कारितस्य
श्रीपार्श्वनाथप्रसादस्य प्रशस्तिः॥ शुभं भवतु श्रीसंघस्य॥ (२४)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org