SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ पत्रश्रेणिरमाभिरामभुजगाधीशस्फटासंस्थितिः। पादासीनदिवस्पतिः शुभफलश्रीकीर्तिपुष्पोद्गमः श्रीसङ्घाय ददातु वाञ्छितफलं (२) श्रीपार्श्वकल्पद्रुमः॥ १॥ यत्र श्रीमुनिसुव्रतस्य सुविभोर्जन्म व्रतं केवलं सम्राजां जयरामलक्ष्मण जरासन्धादिभूमीभूजां। जज्ञे चक्रिबलाच्युतप्रतिहरिश्रीशालिनां सम्भवः प्रापुः श्रेणिकभूधवादि(३) भविनो वीराच्च जैनी रमां॥ २॥ यत्राभयकुमारश्रीशालिधन्यादिमा घनाः। सर्वार्थसिद्धिसम्भोगभुजो जाता द्विधाऽपि हि ॥ ३॥ यत्र श्रीविपुलाभिधोऽवनिधरो वैभारनामापि च श्रीजैनेन्द्रविहारभूषणधरौ पूर्वाप(४) राशास्थितौ । श्रेयो लोकयुगेऽपि निश्चितमितो लभ्यं ब्रुवाते नृणां तीर्थं राजगृहाभिधानमिह तत्कैः कैर्न संस्तूयते ॥४॥ तत्र च-संसारापारपारावारपरपारप्रापणप्रवणमहत्तमतीर्थे । श्रीराजगृहम(५) हातीर्थे । गजेन्द्राकारमहापोतप्रकार श्रीविपुलगिरिविपुलचूलापीठे सकलमहीपालचक्रचूलामा णिक्यमरीचिमञ्जरीपिञ्जरितचरणसरोजे। सुरत्राणश्रीसाहिपेरोजे महीमनुशासति । तदीय(६) नियोगान्मगधेषु मलिकवयोनाममण्डलेश्वरसमये। तदीयसेवकसहणासदुरदीनसाहाय्येन। यादाय निर्गुणखनिर्गुणिरङ्गभाजां॥ पुंमौक्तिकावलिरलं कुरुते सुराज्यं वक्षः श्रुती अपि शिरः (७) सुतरां सुतारा सोयं विभाति भुवि मन्त्रिदलीयवंशः॥ ५॥ वंशेमुत्रपवित्रधीः सहजपालाख्यः सुमुख्यः सतां जज्ञेऽनन्यसमानसद्गुणमणीशृङ्गारितांग: पुरा। तत्सूनुस्तु जनस्तुतस्तिहुणपालेति प्रतीतोऽभव(८) ज्जातस्तस्य कुले सुधांशुधवले राहाभिधानो धनी॥ ६॥ तस्यात्मजोजनि च ठक्करमण्डनाख्यः सद्धर्मकर्मविधिशिष्ट जनेषु मुख्यः। निःसीमशीलकमलादिगुणालिधाम जज्ञे गृहेऽस्य गृहिणी थिरदेविनाम॥ (९) ७ पुत्रास्तयोः समभवन् भुवने विचित्राः पंचात्र संततिभृतः सुगुणैः पवित्राः। तत्रादिमास्त्रय इमे सहदेवकामदेवाभिधानसहराज इति प्रतीताः॥ तुर्यः पुनर्जयति सम्प्रति वच्छराजः श्रीमा(१०) न् सुबुद्धिलघुबान्धवदेवराजः। याभ्यां जडाधिकतया घनपङ्कपूर्वदेशेपि धर्मरथधुर्यपदं प्रपेदे ॥ ९॥ प्रथममनवमाया वच्छराजस्य जाया समजनि रतनीति स्फीतिसन्नीतिरीतिः। प्रभवति पहराजः सद्गु(११) णश्रीसमाजः सुत इत इह मुख्यस्तत्परश्चोढराख्यः॥ १०॥ द्वितीया च प्रिया भाति वीधीरिति विधिप्रिया। धनसिंहादयश्चास्याः सुता बहुरमाश्रिताः॥ ११॥ अजनि च दयिताद्या देवराजस्य राजी गुणम(१२) णिमयतारापारशृंगारसारा॥ स्म भवति तनुजातो धर्मसिंहोत्र धुर्यस्तदनु च गुणराजः सत्कलाकेलिवर्यः॥ . १२ अपरमथ कलत्रं पद्मिनी तस्य गेहे तत उरुगुणजात: षीमराजोंगजातः। प्रथम उदितपद्मः पद्म(१३) सिंहो द्वितीयस्तदपरघडसिंहः पुत्रिका चाच्छरीति ॥ १३ इतश्च ॥ श्रीवर्द्धमानजिनशासनमूलकन्दः पुण्यात्मनां समुपदर्शितमुक्तिभन्दः। सिद्धान्तसूत्ररचको गणभृत्सुधर्मनामाजनि प्रथमकोऽत्रयुग(१४) प्रधानः॥ १४॥ तस्यान्वये समभवद्दशपूर्विवज्रस्वामी मनोभवमहीधरभेदवज्रः। यस्मात्परं प्रवचने . प्रससार वज्रशाखा सुपात्रसुमन:सकलप्रशाखा ॥ १५ ॥ तस्यामहर्निशमतीव विकाशवत्यां चान्द्रे कु(१५) ले विमलसर्वकलाविलासः उद्योतनो गुरुरभाद्विबुधो यदीये पट्टेऽजनिष्ट सुमुनिर्गणिवर्द्धमानः॥ १६ ॥ तदन भुवनाश्रान्तख्यातावदातगणोत्तर: सचरणरमाभरि: सरिर्बभव जिनेश्वरः। खरतर इ(१६) ति ख्यातिं यस्मादवाप गणेप्ययं परिमलकल्पश्रीप"डुगणो वनौ ॥ १७॥ ततः श्रीजिनचन्द्राख्यो बभूव मुनिपुङ्गवः। संवेगरंगशालां यश्चकार च बभार च ॥ १८॥ स्तुत्वा मन्त्रपदाक्षरैरवनितः श्रीपा (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः (२३) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy