SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ (२०) गणाधीशाः ॥ ८ ॥ इति श्रीगुरुवर्णनाष्टकं ॥ इतश्च ॥ श्रीमानूकेशवंशोयं वर्धतां सरलाशयः । नरमुक्ताफलं तत्र जायते जनमंडनं॥ १ ॥ तस्मिञ् श्रीऊकेशवंशे चोपडागोत्रे । सा० हे (२१) मराजः तदंगजः सा० पूनाकस्तदात्मजः सा० दीताख्यस्तत्पुत्राः सा० सोहड कर्मण गणदेव महिपा सा० पांचा सा० ठाकुरसिंहनामानः षट् । तत्र सा० पांचा भार्या रूपादे तत्पुत्रा इमे य(२२) था | शिवराज-महीराज- लोला-लाषणनामकः । चत्वारः श्रीचतुर्वर्गसाधकाः संति पांचयः ॥ १ ॥ एतेषां भगिनी श्राविका गेली । तत्र सा० शिवा भार्या सूहवदे तयोः पुत्रः थिराख्यः पुत्री हीराई (२३) महिरा भार्या महघलदे तयोरंगजाः सादा - सहसा - साजणाख्याः सुते नारंगदे - बल्हीनाम्न्यौ । लोलाभार्या लीलादे पुत्रौ सहसपाल मेलाकौ पुत्री लषाई । लाषण भार्या लषमादे तदात्मजाः (२४) शिखरा-समरा- मालाख्याः ॥ इत्यादिपरिवारेण संयुताः श्रावका इमे । कुर्वंति धर्मकार्याणि शासनोन्नतिहेतवे ॥ १ ॥ विक्रमवर्षचतुर्दशसप्ताशीतौ विनिर्ममे यात्रा । शत्रुंजयरैवतगिरितीर्थे संघा(२५) न्वितैरेभिः॥ २ ॥ पंचम्युद्यापनं चक्रे वत्सरे नवतौ पुनः । चतुर्भिर्बांधवैरेभिश्चतुर्धा धर्मकारकैः ॥ ३ ॥ अथ संवत् १४९४ वर्षे श्रीवैरिसिंहराउलराज्ये श्रीजिनभद्रसूरीणामुपदेशेन नवीनः प्रासा - (२६) दः कारितः । ततः संवत् १४९७ वर्षे कुंकुमपत्रिकाभिः सर्वदेशवास्तव्यपरः सहस्र श्रावकानामंत्र्य प्रतिष्ठामहोत्सवः सा० शिवाद्यैः कारितः । तत्र च महसि श्रीजिनभद्रसूरिभिः श्रीसंभवनाथप्रमु (२७) खबिंबानि ३०० प्रतिष्ठितानि प्रासादश्च ध्वजशेखरः प्रतिष्ठितः । तत्र श्रीसंभवनाथो मूलनायकत्वेन स्थापितः। तत्र चावसरे सा० शिवामहिरालोलालाषण श्राद्धैः दिन ७ साधर्मिकवात्सल्यं कृतं राउ(२८) लश्रीवैरसिंहेन साकं श्रीसंघो विविधवस्त्रैः परिधापितः । राउल श्रीवैरसिंहेनापि चत्वारस्ते बांधवाः स्वबांधववद्वस्त्रालंकारादिदानेन सम्मानिता इति ॥ अथ जिनपतिपार्श्वो राजतां यत्प्र-. (२९) सादात् सकलसुकृतकार्यं सिध्यति ध्यायकानां । जिनकुशलमुनींद्रास्ते जयंतु त्रिलोक्यां खरतरविधिपक्षे तन्वते ये सुखानि॥ १ ॥ सरस्यामिव रोदस्यां पुष्पदंतौ विराजतः। हंसवन्नं (३०) दतात्तावत् प्रासादः संभवेशितुः ॥ २ ॥ प्रासादकारकाणां प्रासादविधिप्रतिष्ठितिकराणां । सूरीणां श्राद्धानां दिने दिने वर्द्धतां संपत्॥ ३ ॥ सेवायै त्रिजगज्जनाञ् जिनपतेर्यच्शृंगमूले स्थिता (३१) दंडव्याजभृतस्त्रयः सुपुरुषा आमंत्रयंति ध्रुवं । प्रेंखोलद्ध्वजपाणिभी रणरणघंटानिनादेन तत् प्रासादत्रितयं त्रिलोकतिलकं वंदे मुदाहं त्रिधा ॥ ४ ॥ प्रासादत्रितयं नंद्यात् त्रिलोकीतल (३२) मंडनं । त्रिविधेन त्रिधा शुद्धया वंदितं त्रिजगज्जनैः ॥ ५ ॥ सौभाग्यभाग्यनिधयो मम विद्यादायकाः कविगजेंद्राः। श्रीजयसागरगुरवो विजयंते वाचकगरिष्ठाः ॥ ६ ॥ तच्शिष्यो वा (३३) चनाचार्यो वर्त्तते सोमकुंजरः । प्रशस्तिर्विहिता तेन वाचनीया विचक्षणैः ॥ ७ ॥ श्रीः ॥ श्रीः ॥ श्रीः ॥ लिखिता च पं० भानुप्रभगणिना ॥ सर्वसंख्यायां कवित्वानि ३३ ॥ शुभं भवतु संघस्य (३४) ॥ ८ ॥ जिनसेनगणिश्चात्र चैत्येकार्षीद् बहूद्यमं । सूत्रभृच्शिवदेवेन प्रशस्तिरुदकारि च ॥ १ ॥ प्रासादे क्रियमाणेथ बहुविध्नोपशांतये । विज्ञानं रचयामास जिनसेनो (३५) महामुनिः ॥ २ ॥ शुभं । (२८९ ) विंशतिविहरमानपट्टिका ॥ ॐ ॥ संवत् १४९७ वर्षे श्रीऊकेशवंशे चोपड़ा गोत्रे सा० दीता तत्पुत्र सा० पांचा तदीय पुत्र ॥ चो० सिवराज महिराज लोला लाषण श्रावकैः पुत्र थिरा सहसा सहजपाल सिखरा प्रमुख। परिवारसहितैः २८९. संभवनाथ जिनालय, दुर्ग, जैसलमेर : पू०जै०, भाग ३, लेखांक २१४३ (५८) खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy