________________
(३) तमाविष्कुरुतां स्फुरद्युतिः। यस्य प्रतापादशिवक्षपाक्षये पुण्यप्रकाशः प्रससार सर्वतः॥ २ ॥
कल्याणकल्पद्रुममेरुभूमिः संपल्लतोल्लासनवारिवाहः। प्रभावरत्नावलिरोहणाद्रि : श्री(४) संभवेशः शिवतातिरस्तु ॥ ३॥ प्रासादत्रितये नत्वा मूलनाथत्रयं मुदा। रत्नत्रयमिवाध्यक्षं प्रशस्ति
रचयाम्यहं ॥ ४॥ यत्प्राकारवरं विलोक्य बलिनो म्लेच्छावनीपा अपि प्रोद्यत्सैन्यसहस्रदुर्ग्रहमिदं गेहं हि (५) गोस्वामिनः । भग्नोपायबला वदंत इति ते मुंचंति मानं निजं तच् श्रीजेसलमेरुनाम नगरं जीयाज्जनत्रायकं ॥
५॥ वंशो यद्यदुनायकैर्नरवरैः श्रीनेमिकृष्णादिभिर्जन्मेन प्रवरावदातनिकरैरत्य(६) द्भुतैराख्यतः। तेनासौ लभते गुणं त्रिभुवनं सन्नादतो रंजयेत् कोवा ह्यत्तममानितो न भवति श्लाघापदं
सर्वतः॥ ६॥ श्रीनेमिनारायणरौहिणेया दुःखत्रयात् त्रातुमिव त्रिलोकं यत्रोदिता: श्रीपु(७) रुषोत्तमास्ते स वर्णनीयो यदुराजवंशः॥ ७॥ तस्मिन् श्रीयादववंशे। राउल श्रीजइतसिंह- मूलराज
रत्नसिंह-राउलश्रीदूदा-राउलश्रीघटसिंह-मूलराजपुत्र-देवराजनामानो राजानोभूवन्। त(८) तोभूत्केसरी राजा केसरीव पराक्रमी । वैरिवारणसंहारं यश्चकारासिदंष्ट्रया॥१॥ श्रीमत्केसरिराजसूनुरभवच
श्रीलक्ष्मणो भूपतिर्विद्वल्लक्ष्मणलक्षतोषणशरच् श्रीलक्ष्मणस्तेजसा। दाना(९) शाय करग्रहाश्च सकलं लोकं व्यधाल्लक्ष्मणं यो बिंबं मृगलक्ष्मणोपि यशसा सौवाभिधानं न्यधात् ॥
२॥ तदीयसिंहासनपूर्वशैलप्राप्तोदयोत्युग्रतरप्रतापः। श्रीवैरसिंहक्षितिपाल भानुर्वि(१०) भासते वैरितमो निरस्यन् ॥ ३॥ इतश्च ॥ चंद्रकुले श्रीखरतरविधिपक्षे॥ श्रीवर्धमानाभिधसूरिराजो
जाताः क्रमादर्बुदपर्वताये। मंत्रीश्वरश्रीविमलाभिधानः प्राचीकरद्यद्वचनेन चैत्यं ॥ १ ॥ अ(११) हिल्लपाटकपुरे यैर्दुर्लभराजपर्षदि विवादे। प्राप्तं खरतरबिरुदं जिनेश्वरास्सूरयो जजुः ॥ २॥ ततः
क्रमेण श्रीजिनचंद्रसूरि-नवांगीवृत्तिकारश्रीस्तंभनपार्श्वनाथप्रकटीकार-श्रीअभय(१२) देवसूरि-श्रीपिंडविशुद्धयादिप्रकरणकार श्रीजिनवल्लभसूरि-श्रीअंबिकादेवताप्रकाशितयुगप्रधानपद
श्रीजिनदत्तसूरि-श्रीजिनचंद्रसूरि-श्रीजिनपतिसूरि-श्रीजिनेश्वरसूरि-श्रीजिनप्रबो(१३) धसूरि-श्रीजिनचंद्रसूरि-श्रीजिनकुशलसूरि-श्रीजिनपद्मसूरि-श्रीजिनलब्धिसूरि-श्रीजिनचंद्रसूरयः ।
श्रीजिनशासनं प्रभासितवंतः॥ ततः। श्रीगच्छलक्ष्मीधरणे जिनोदयाः प्रकाशित(१४) प्राज्ञसभाजिनोदयाः। कल्याणवार्द्धा दशवाजिनोदयाः पाथोजहंसा अभवञ् जिनोदयाः॥ १॥
जिनराजसूरिराजः कलहंसा इव बभुर्जिनमताब्जे । सन्मानसहितगतयः सदाम(१५) रालीश्रिता विमलाः॥ २॥ तत्पट्टे ॥ ये सिद्धांतविचारसारचतुरा यानाश्रयन् पंडिताः सत्यं शीलगुणेन
यैरनुकृतः श्रीस्थूलभद्रो मुनिः। येभ्यः शं वितनोति शासनसुरा श्रीसंघदीप्तिर्य(१६) तो येषां सार्वजनीनमाप्तवचनं येष्वद्भुतं सौभगं॥ १॥ श्रीउज्जयंताचलचित्रकूटमांडव्यपूर्जाउरमुख्यकेषु ।
स्थानेषु येषामुपदेशवाक्यान्निर्मापिताः श्राद्धवरैर्विहाराः॥ २ ॥ अणहिल्ल(१७) पाट क पुर प्रमुखस्थानेषु यै र कार्यत। श्रीज्ञानरत्नकोशा विधिपक्षश्राद्धसंघेन ॥ ३ ॥
मंडपदुर्गप्रह्लादनपुरतलपाटकादिनगरेषु । यैर्जिनवरबिंबानां विधिप्रतिष्ठाः क्रियते स्म ॥ ४॥ यैर्नि(१८) जबुद्ध्यानेकांतजयपताकादिका महाग्रंथाः। पाठ्यंते च विशेषावश्यकमुख्या अपि मुनीनां ॥ ५॥
कर्मप्रकृतिप्रमुखग्रंथार्थविचारसारकथनेन। परपक्षमुनीनामपि यैश्चित्तचमत्कृतिः क्रिय (१९) ते॥ ६॥ छत्रधरवैरिसिंहत्र्यंबकदासक्षितीन्द्रमहिपालैः। येषां चरणद्वंद्वं प्रणम्यते भक्तिपूरेण ॥ ७॥
शमदमसंयमनिधयः सिद्धांतसमुद्रपारदृश्वानः। श्रीजिनभद्रयतींद्रा विजयंते ते
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
(५७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org