________________
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, (साक्षीपाठ)
७०१/१३२३
करणम्।" प्रयत्नज्ञानायोगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् । पृथकत्वमप्यत एव । तदभाववचनादणुपरिमाणम् । प्रयत्नादृष्टपरिग्रहवशादाशुसंचारि चेति । प्रश० भा० पृ० ३६ । न्यायसू० १।१।१६।
(G-56) "लक्षणं च भेदार्थं व्यवहारार्थं चेति । तथाहि पृथिव्यादिनी इतरस्माद् भिद्यन्ते द्रव्याणीति वा व्यपहर्तव्यानि द्रव्यत्वयोगात् ।" -- प्रश० व्यो० पृ० १५० । पृथिव्यादीनां नवानामपि द्रव्यत्वयोगः । प्रश० भा० पृ० २० । एतेन द्रव्यादिपदार्थस्य इतरेभ्यो भेदलक्षणमुक्तम् । प्रश० कन्दली पृ० २० ।
(G-57) "आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशं कालो दिगिति ।" प्रश० भा० पृ० ५८ ।
(G-58) "रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखेच्छाद्वेषौ प्रयत्नाश्च गुणाः ।" वैशे० सू० १।१।६ । इति कण्ठोक्ताः सप्तदश । चशब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिर्गुणाः । प्रश० भा० पृ० ३ ।
(G-59) "स्पर्शस्त्वगिन्द्रियग्राह्यः । क्षित्युदकज्वलनपवनवृत्तिः।" प्रश० भ० पृ० ४५ । (G-60) "रसो रसनग्राह्यः । पृथिव्युदकवृत्तिः" प्रश० भा० पृ० ४५ ।
(G-61) "तत्र रूपं चक्षुर्ग्राह्यम् । पृथिव्युदकञ्चलनवृत्ति द्रव्याधुपलम्भकं नयनसहकारि शुक्लाद्यनेकप्रकारं सलिलादिपरमाणुषु नित्यं पार्थिवपरमाणुष्वग्निसंयोगविरोधि सर्वकार्यद्रव्येषु कारणगुणपूर्वकमाश्रयविनाशादेव विनश्यतीति ।" प्रश० भा० पृ० ४४ ।
(G-62) "गन्धो घ्राणग्राह्यः । पृथिवीवृत्तिः ।" प्रश० भा० पृ० ४५ ।
(G-63) "शब्दोऽम्बरगुणः श्रोत्रग्राह्यः क्षणिकः कार्यकारणोभयविरोधी संयोगविभागशब्दजः प्रदेशवृत्तिः ।" प्रश० भा० पृ० १४४ ।
(G-64) “एकादिव्यवहारहेतुसंख्याः ।" प्रश० भा० पृ० ४८ । (G-65) "प्राप्तिपूर्वकाप्राप्तिर्विभागः ।" प्रश० भा० पृ० ६७ । (G-66) "अप्राप्तयोः प्राप्तिसंयोगः ।" प्रश० भा० पृ० ६२ । (G-67) “परिमाणं मानव्यवहारकारणम् ।" प्रश० भा० पृ० भ० २ । (G-68) "पृथक्त्वमपोद्धारव्यवहारकारणम् ।" प्रश० भा० पृ० ५९ ।
(G-69) "परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तम्। तत्तु द्विविधं दिकृतं कालकृतं च।" प्रश० भा० पृ०७६ ।
(G-70) "बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः ।" प्रश० भा० पृ० ४३ । (G-71) "अविद्या चतुविधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा ।" प्रश० भा० पृ० ८४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org