________________
६८८/१३१०
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-७, ( साक्षीपाठ)
अभिवर्ध्यते इति परोक्षम् ।" तत्त्वार्थश्लो० पृ० १८२ । प्रमाणप० पृ० ६९ । परीक्षामुख ३।१ । पञ्चाध्यायीश्लो० ६९६ । न्यायाव० श्लो० ४ । विशेषाव० भा० श्लो० ९० । सन्मति० टी० पृ० ५९५ न्यायकुमु० पृ० २७ । प्रमाण० त० ३।१ । प्रमाणमी० ३।१।
(F-52) "चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति ।" न्यायवि० टी० १।३ ।
(F-53) "आदौ प्रत्यक्षग्रहणं प्राधान्यात्.. तत्र किं शब्दस्यादावुपदेशो भवतु आहोस्वित् प्रत्यक्षस्येति । प्रत्यक्षस्येति युक्तम् । किं कारणम् । सर्वप्रमाणानां प्रत्यक्षपूर्वकत्वात् इति ।" न्यायवा० १,१,३ । साङ्ख्यत० का० ५ ।न्यायम० पृ० ६५, १०९ । न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्याप्रामाण्यमुप-चरितार्थत्वं चेति युक्तम् तस्य पौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य बोधकतया स्वतः सिद्धप्रमाणभावस्य स्वकार्ये प्रमितावनपेक्षत्वात् । भामती पृ०६।। ___ (F-54) "अर्थसंवादकत्वे च समाने ज्येष्ठतास्य का। तदभावे तु नैव स्यात् प्रमाणमनुमानादिकम् ।।" तत्त्वसं० का० ४६० । न्यायवि० टी० १,३ । अष्टश० अष्टस० पृ०८० । प्रमाणमी० पृ०७।
(F-55) "प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ।" न्यायसू० १।१।६ । “प्रसिद्धसाधादिति - प्रसिद्धं साधर्म्य यस्य, प्रसिद्धेन वा साधर्म्य यस्य सोऽयं प्रसिद्धसाधो गवयस्तस्मात् साध्यसाधनमिति समाख्यासंबन्धप्रतिपत्तिरूपमानार्थः । किमुक्तं भवति । आगमाहितसंस्कारस्मृत्यपेक्षं सारूप्यज्ञानमुपमानम् । यदा ह्यनेन श्रुतं भवति यथा गौरेवं गवय इति, प्रसिद्ध गोगवयसाधर्म्य पुनर्गवा साधर्म्यं पश्यतोऽस्य भवति अयं गवय इति समाख्यासंबन्धप्रतिपत्तिः।" न्यायवा० पृ०५७ । “प्रसिद्धसाधर्म्यात् इत्यत्र प्रसिद्धिरुभयी श्रुतिमयी प्रत्यक्षमयी च। श्रुतिमयी यथा गौरेवं गवय इति । प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टोऽयमीदृशः पिण्ड इति । तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासंबन्धप्रतिपत्तिहेतुः । तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदमागमस्मृतिसहितं सादृश्यज्ञानमुपमानाख्यं प्रमाणमास्थेयम् ।" न्यायवा० ता० पृ० १९८ । “अद्यतनास्तु व्याचक्षते श्रुतातिदेशवाक्यस्य प्रमातुरसिद्ध पिण्डे प्रसिद्धपिण्डसारूप्यज्ञान-मिन्द्रियजं संज्ञासंज्ञिसंबन्धप्रतिपत्तिफलमुपमानम् । तद्धीन्द्रियजनितमपि धूमज्ञानमिव तद गोचरप्रमेयप्रमितिसाधनात् प्रमाणान्तरम् । श्रुतातिदेशवाक्यो हि नागरिकः कानने परिभ्रमन् गोसदृशं प्राणिनमवगच्छति ततो वनेचरपुरुषकथितं यथा गौस्तथा गवय इति वचनमनुस्मरति, स्मृत्वा च प्रतिपद्यते अयं गवयशब्दवाच्य इति । तदेतत्संज्ञासंज्ञिसंबन्धज्ञानं तज्जन्यमित्युपमानफलमित्युच्यते ।" न्यायमं० पृ० १४२ । न्यायकलि पृ० ३।
(F-56) "ततो यः संकलनात्मकः प्रत्ययः स प्रत्यभिज्ञानमेव यथा स एवायम् इति प्रत्ययः संकलनात्मकश्च अनेन सदृशो गौः इति प्रत्यय इति ।" न्यायकुमु० पृ० ४९४ । आप्तेनाप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव । प्रश० भा० शब्द० कन्द० पृ० २२० । __(F-57) "अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यते-इत्यर्थकल्पना, यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पना ।" शाबभा० १।१।५ । प्रकरणपं० पृ० ११३ । शास्त्रदी०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org