________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ) कार्यचक्रस्य कर्ता तथेयतस्त्रैलोक्यस्य निरवधिप्राणिसुखदुःखसाधनस्य सृष्टिसंहारसंविधानं संप्रयोजनं बहुशाखं जानन्नेव स्रष्टा भवितुमर्हति महेश्वरस्तस्मात्सर्वज्ञः । " - न्यायमं० प्रमाण० वृ० १८४ ।
(E-11) “अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति । नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्तन्त इति ।" न्यायवा० पृ० ४६४ । तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् । न्यायवा०ता० टी० पृ० ५९७ । नित्यं तज्ज्ञानं कथमिति चेत् तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्यमाणकर्माधीननानाप्रकारव्यवहारविरामप्रसङ्गात् । " -न्यायमं० प्रमाण० पृ० १८४ ।
६७४/ १२९६
(E-12) “अत एवैक ईश्वर इष्यते न द्वौ बहवो वा भिन्नाभिप्रायतया लोकानुग्रहोपघातवैशसप्रसङ्गात्, इच्छाविसंवादसंभवेन च ततः कस्यचित्संकल्पविघातद्वारकानैश्वर्यप्रसङ्गाद् इत्येक एवेश्वरः ।”–न्यायमं० प्रमाण० पृ० १८७ ।
(E-13) तुलना “यत्तावत् क्षित्यादेर्बुद्धिमद्धेतुकत्वसिद्धये कार्यत्वं साधनमुक्तम्, तत्कि सावयवत्वम्, प्रागसतः स्वकारणसत्तासमवायः, कृतम् इति प्रत्ययविषयत्वम्, विकारित्वं वा स्यात् ?" न्यायकुमु० पृ० १०१ । प्रमेयरत्नमा० पृ० ६४ ।
(E-14) तुलना “नापि प्रागसतः स्वकारणसत्तासंबन्धः कार्यत्वम्, तत्संबन्धस्य समवायाख्यस्य नित्यत्वेन कार्यलक्षणत्वायोगात् ।" न्यायकुमु० पृ० १०१ ।
(E-15) तदा योगिनामशेषकर्मक्षये पक्षान्तः पातिनि हेतोः कार्यत्वलक्षणस्याप्रवृत्तेर्भागासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा समस्ति, तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवाययोर - भावात् सत्ताया द्रव्यगुणक्रियाधारत्वाभ्यनुज्ञानात् समवायस्य च परैर्द्रव्यादिपञ्चपदार्थवृत्तित्वाभ्युपगमात् ।” प्रमेयरत्नमा० सू० २।१२ ।
(E-16) “तत्रापि खननोत्सेचनात् कृतमिति गृहीतसंकेतस्य कृतबुद्धिसंभवात् । " - प्रमेरत्नमा० सू० २।१२ ।
(E-17) “अस्तु वा यथाकथंचिज्जगतः कार्यत्वम्, तथापि किं कार्यमात्रमत्र हेतुत्वेन विवक्षितम्, तद्विशेषो वा ।" न्यायकुमु० पृ० १०२ ।
(E-18) “तत्र अकृत्रिमभूभागादिसंस्थानसारूप्यस्य कृतबुद्धेरनुत्पादकस्य सद्भावतः तदनुत्पादस्योपपत्तेः । सिद्ध्यतु वा, तथाप्यसौ विरुद्धः ।" न्यायकुमु० पृ० १०३ ।
(E-19) "अकृष्टप्रभवैस्तरुतृणादिभिर्व्यभिचारी चायं हेतु ।" न्यायकुमु० पृ० १०४ ।
(E-20) “अस्तु वा तत्सद्भाव:, तथापि अस्याऽदृश्यत्वे शरीराभावः कारणम्, विद्यादिप्रभाव:, जातिविशेषो वा ।” न्यायकुमु० पृ० १०५ । स्या० रत्ना० पृ० ४३३ ।
(E-21) “अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवत् भवेत् ॥७८॥ " मीमांसाश्लो० पृ० ६६० । " तस्यापि वितनुकरणस्य तत्कृतेरसंभवात् ।" अष्टश० अष्टसह० पृ० २७१ । " तत्संबन्धरहितस्य
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org