SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २४६/८६९ षड्दर्शन समुञ्चय भाग - २, श्लोक - ५७, जैनदर्शन विरोधी धर्म एकसाथ किस तरह से रहेंगे, वह समज में नहीं आता है ? __समाधान : ऐसा मत कहना। क्योंकि जैसे एक ही पुरुष में अलग-अलग अपेक्षाओ के कारण लघुत्व, गुरुत्व, बालत्व, वृद्धत्व, युवत्व, पुत्रत्व, पितृत्व, गुरुत्व, शिष्यत्व आदि परस्पर विरुद्धधर्म भी होते है। वैसे एक ही वस्तु में भिन्न भिन्न अपेक्षा के वश से परस्पर विरुद्ध ऐसे सत्त्व-असत्त्व, नित्य-अनित्य आदि धर्मो को मानने में विरोध नहीं है। इसलिए वस्तुओ में सर्वथा विरोध होता नहीं है। कथंचित् विरोध है, वह तो सर्ववस्तुओ में तुल्य है । उस कथंचित् विरोध के कारण ही एक वस्तु का दूसरी वस्तु से भेद सिद्ध होता है। इसलिए सर्व वस्तुओ में समानतया रहा हुआ कथंचित् विरोधरुप भेद बाधक नहीं है। ___ तथा संशयोऽपि न युक्तः, सत्त्वासत्त्वयो: G-32 स्फुटरूपेणैव प्रतीयमानत्वात् । अदृढप्रतीतौ हि संशयः, यथा क्वचित्प्रदेशे स्थाणुपुरुषयोः । तथा यदुक्तं “अनवस्था” इति, तदप्यनुपासितगुरोर्वचः, यतः G-33 सत्त्वासत्त्वादयो वस्तुन एव धर्माः, न तु धर्माणां धर्माः, ‘धर्माणां धर्मा न भवन्ति' इति वचनात् । न चैवमेकान्ताभ्युपगमादनेकान्तहानिः, अनेकान्तस्य-34 सम्यगेकान्ताविनाभावित्वात्, अन्यथानेकान्तस्यैवाघटनात् नयार्पणादेकान्तस्य प्रमाणादनेकान्तस्यैवोपदेशात्, तथैव दृष्टेष्टाभ्यामविरुद्धस्य तस्य व्यवस्थितेः । किं च, प्रमाणार्पणया सत्त्वेऽपि सत्त्वासत्त्वकल्पनापि भवतु । न च तत्र कश्चनापि दोषः । ननूक्तमनवस्थेति चेत् ? न, यतः साप्यनेकान्तस्य भूषणं न दूषणं, अमूलक्षि(क्ष)तिकारित्वेन प्रत्युतानेकान्तस्योद्दीपकत्वात्, मूलक्षि(क्ष)तिकरी ह्यनवस्था दूषणम् । यदुक्तम्-“मूल क्षि(क्ष)तिकरीमाहुरनवस्थां हि दूपणम् । वस्त्वानन्त्येऽप्यशक्तौ च नानवस्थापि वार्यते ।।१।।” ततो यथा यथा सत्त्वेऽपि सत्त्वासत्त्वकल्पना विधीयते, तथा तथानेकान्तस्यैवोद्दीपनं न तु मूलवस्तुक्षि(क्ष)तिः । तथाहि-इह सर्वपदार्थानां स्वरूपेण सत्त्वं पररूपेण चासत्त्वम् । तत्र जीवस्य तावत्सामान्योपयोगः स्वरूपं, तस्य तल्लक्षणत्वात्, ततोऽन्योऽनुपयोगः पररूपम्, ताभ्यां सदसत्त्वे प्रतीयेते । तदुपयोगस्यापि विशेषतो ज्ञानस्य स्वार्थाकारव्यवसायः स्वरूपं, दर्शनस्यानाकारग्रहणं स्वरूपं, तद्विपरीतं तु पररूपम्, ततस्ताभ्यां तत्रापि सत्त्वासत्त्वे । तथा पुनर्ज्ञानस्यापि परोक्षस्यावैशा प्रत्यक्षस्य वैशचं स्वरूपं, दर्शनस्यापि चक्षुरचक्षुर्निमित्तं चक्षुराद्यालोचनं स्वरूपं, अवधिदर्शनस्याप्यवध्यालोचनं स्वरूपं, अन्यञ्च पररूपम्, । ततस्ताभ्यां तत्रापि सत्त्वासत्त्वे । परोक्षस्यापि मतिज्ञानस्येन्द्रियानिन्द्रियनिमित्तं स्वार्थाकारग्रहणं स्वरूपं, अनिन्द्रियमात्रनिमित्तं श्रुतस्य स्वरूपं, प्रत्यक्षस्यापि विकलस्यावधिमनःपर्यायरूपस्य मनोऽक्षानपेक्षं स्पष्टार्थग्रहणं स्वरूपं, सकलप्रत्यक्षस्य सर्वद्रव्यपर्यायसाक्षात्करणं स्वरूपं, ततोऽन्यत्पररूपम् । ताभ्यां पुनरपि तत्रापि सदसत्त्वे प्रतिपत्तव्ये । (G-32-33-34)- तु० पा० प्र० प० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004074
Book TitleShaddarshan Samucchaya Part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages756
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy