SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७२/७९५ षड्दर्शन समुञ्चय भाग - २, श्लोक - ५२, जैनदर्शन के लिए वे युक्तियों का आपको स्फुरण होता नहीं है। वस्त्र का भी यतना द्वारा सीना, काटना इत्यादि करने से जीवोत्पत्ति का निवारण किया जा सकता है। इसलिए वस्त्र के सद्भावमात्र से चारित्र का असंभव नहीं है। नापि मन्दसत्त्वतया, यतः सत्त्वमिह व्रततपोधारणविषयमेषितव्यम्, तञ्च तास्वनल्पं सुदुर्धरशीलवतीषु सम्भवति । अतो न चारित्रासम्भवेन तासां हीनत्वम् । ननु भवत्वविशिष्टं चारित्रं स्त्रीणां, परं परमप्रकर्षप्राप्तं यथाख्याताभिधं तासां न स्यादिति पुरुषेभ्यो हीनत्वमिति चेत् ? तर्हि चारित्रपरमप्रकर्षाभावोऽपि तासां किं कारणाभावेन १ विरोधसम्भवेन वा, न तावदाद्यः पक्षः, अविशिष्टचारित्राभ्यासस्यैव तन्निबन्धनत्वात्, तस्य च स्त्रीष्वनन्तरमेव समर्थितत्वात् । नापि द्वितीयः, यथाख्यातचारित्रस्यार्वाग्दृशामत्यन्तपरोक्षतया केनचिद्विरोधानिर्णयादिति न चारित्राभावेन स्त्रीणां हीनत्वम् ? नापि विशिष्टसामर्थ्यासत्त्चेन, यत इदमपि किं सप्तमनरकपृथ्वीगमनायोग्यत्वेन १ वादादिलब्धिरहितत्वेन २ अल्पश्रुतत्वेन वा २ ? । न तावदाद्यः पक्षः, यतस्तदभावः किं यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यते सामान्येन वा ? यद्याद्यपक्षः, तर्हि पुरुषाणामपि यत्र जन्मनि मुक्तिगामित्वं तत्र सप्तमपृथ्वीगमनायोग्यत्वं, ततस्तेषामपि मुक्त्यभावः स्यात् । अथ द्वितीयः, तदायमाशयो भवतः, यथा सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेन प्राप्यते, सर्वोत्कृष्टे च द्वे एव पदे सर्वदुःखस्थानं सप्तमी नरकपृथ्वी सर्वसुखस्थानं मोक्षश्च, ततो यथा स्त्रीणां सप्तमपृथ्वीगमनमागमे निषिद्धं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्याभावात्, एवं मोक्षोऽपि तथाविधशुभमनोवीर्याभावान्न स्त्रीणां भविष्यति । प्रयोगश्चात्र-नास्ति स्त्रीषु मुक्तिकारणशुभमनोवीर्यपरमप्रकर्षः प्रकर्षत्वात् सप्तमपृथ्वीगमनकारणाशुभमनोवीर्यपरमप्रकर्षवत्"-40, तदेतदयुक्तं, F-41व्याप्तेरभावात् । न हि बहिर्व्याप्तिमात्रेण हेतुर्गमकः स्यात्, किं त्वन्तर्व्याप्त्या, अन्यथा तत्पुत्रत्वादेरपि गमकत्वप्रसङ्गः, अन्तर्व्याप्तिश्च प्रतिबन्धबलेनैव सिध्यति, न चात्र प्रतिबन्धो विद्यते, ततः सन्दिग्धविपक्षव्यावृत्तिकमिदं साधनं चरमशरीरिभिनिश्चिन्तव्यभिचारं च, तेषां हि सप्तमपृथ्वीगमनहेतुमनोवीर्यप्रकर्षाभावेऽपि मुक्तिहेतुमनोवीर्यप्रकर्षसद्भावात्, तथा मत्स्यैरपि व्यभिचारः, तेषां हि सप्तमपृथ्वीगमनहेतुमनोवीर्यप्रकर्षसद्भावेऽपि न मुक्तिगमनहेतुशुभमनोवीर्यप्रकर्षसद्भाव इति । व्याख्या का भावानुवाद : "मंदसत्त्व होने के कारण स्त्रीयों को चारित्र का अभाव होता है।"-ऐसा नहीं कहा जा सकता। क्योंकि १. सर्वोत्कृष्टाशुभ इत्यपि पाठः । (२) यथा मुक्तिगमनमपि तद्गमनयोग्यतथाविधशुभमनोवीर्याभावात् इत्यपि पाठः (F-40-41)- तु० पा० प्र० प० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004074
Book TitleShaddarshan Samucchaya Part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages756
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy