SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११२/७३५ षड्दर्शन समुञ्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन ___ अथ पुद्गलाः । “स्पर्शरसगन्धवर्णवन्तः पुद्गलाः” [तत्त्वार्थाधिगम० ५,२३] । अत्र स्पर्शग्रहणमादौ स्पर्शे सति रसादिसद्भावज्ञापनार्थम् । ततोऽबादीनि चतुर्गुणानि स्पर्शित्वात्, पृथिवीवत् । तथा मनः स्पर्शादिमत्, असर्वगतद्रव्यत्वात्, पार्थिवाणुवदिति प्रयोगौ सिद्धौ । तत्र स्पर्शा हि मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षाः । अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति । स्कन्धेष्वष्टावपि यथासंभवमभिधानीयाः । रसास्तिक्तकटुकषायाम्लमधुराः । लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । गन्धौ सुरभ्यसुरभी । कृष्णादयो वर्णाः । तद्वन्तः पुद्गला इति । न केवलं पुद्गलानां स्पर्शादयो धर्माः, शब्दादयश्चेति दर्श्यते । “शब्दबन्धसौक्ष्म्यस्थौल्य-संस्थानभेदतमछायातपोद्योतवन्तश्च” [तत्त्वार्थाधिगम० ५, २४] पुद्गलाः । अत्र पुद्गलपरिणामाविष्कारे मतुष्प्रत्ययो नित्ययोगार्थं विहितः । तत्र शब्दो ध्वनिः १ । बन्ध-परस्पराश्लेषलक्षणः प्रयोगविस्रसादिजनित औदारिकादिशरीरेषु जतुकाष्ठादिश्लेषवत् परमाणुसंयोगजवद्वेति २ । सौम्यं-सूक्ष्मता ३ । स्थौल्यं-स्थूलता ४ । संस्थानमाकृतिः ५ । भेदः-खण्डशो भवनं ६ । तम छायादयः प्रतीताः । सर्व एवैते स्पर्शादयः शब्दादयश्च पुद्गलेष्वेव भवन्तीति । पुद्गला द्वेधा, परमाणवः स्कन्धाश्च । तत परमाणोर्लक्षणमिदम् “कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च(A) ।।१।।" व्याख्या ।। सकलभेदपर्य-न्तवर्तित्वादन्त्यं तदेव कारणं न पुनरन्यव्यणुकादि तदेव किमित्याह सूक्ष्मः-आगमगम्यः, अस्मदादीन्द्रियव्यापारातीतत्वात् । नित्यश्चेति-द्रव्यार्थिकनयापेक्षया ध्रुवः, पर्यायार्थिकनयापेक्षया तु नीलादिभिरा-कारैरनित्य एवेति । न ततः परमणीयो द्रव्यमस्ति, तेन परमाणुः । तथा पञ्चानां रसानां द्वयोर्गन्धयोः पञ्चविधस्य वर्णस्यैकेन रसादिना युक्तः । तथा चतुर्णा स्पर्शानां मध्ये द्वावविरुद्धौ यौ स्पर्शी स्निग्धोष्णौ स्निग्धशीतौ रूक्षशीतौ रूक्षोष्णौ वा, ताभ्यां युक्तः । तथा कार्यं ट्यणुकाद्यचित्त-महास्कन्धपर्यन्तं तस्य लिङ्गमिति । एवंविधलक्षणा निरवयवाः परस्परेणाऽसंयुक्ताः परमाणवः । व्याख्या का भावानुवाद : अब पुद्गलद्रव्य का वर्णन किया जाता है। तत्त्वार्थसूत्र अ.५।२३ में कहा है कि... "स्पर्श, रस, गंध, वर्णवाले पुद्गल होते है।" सूत्र में प्रथम "स्पर्श" को ग्रहण करने का कारण यह है कि... "जिसमें स्पर्श होता है, । उसमें रस, गंध, वर्ण अवश्य होता ही है। अर्थात् प्रारंभ से स्पर्श का ग्रहण होने पर भी रसादि का सद्भाव अवश्य होता है, वह बताने के लिए है इसलिए स्पर्श को प्रथम ग्रहण किया है।।" "पानी इत्यादि (A) उद्धृतोऽयं त० भा० ५/२५ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004074
Book TitleShaddarshan Samucchaya Part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages756
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy