SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११०/७३३ षड्दर्शन समुञ्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन कालकृता वर्तनाद्या वस्तूनामुपकाराः । अथवा वर्तनाद्या उपकाराः कालस्य लिङ्गानि, ततस्तानाह “वर्तना परिणामः क्रियापरत्वापरत्वे च” [तत्त्वार्थाधिगमः ५, २२] । तत्र वर्तन्ते स्वयं पदार्थाः, तेषां वर्तमानानां प्रयोजिका कालाश्रया वृत्तिर्वर्तना, प्रथमसमयाश्रया स्थितिरित्यर्थः १ । परिणामो द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभावः परिणामः । तद्यथा-वृक्षस्याङ्कुरमूलाद्यवस्थाः परिणामः, आसीदङ्कुरः, सम्प्रति स्कन्धवान्, ऐषमः पुष्पिष्यतीति । पुरुषद्रव्यस्य बालकुमारयुवाद्यवस्थाः परिणामः । एवमन्यत्रापि । E-97परिणामो द्विविधः, अनादिरमूर्तेषु धर्मादिषु, मूर्तेषु तु सादिरभेन्द्रधनुरादिषु स्तम्भकुम्भाम्भोरुहादिषु च । ऋतुविभागकृतो वेलाविभागकृतश्च परिणामस्तुल्यजातीयानां वनस्पत्यादीनामेकस्मिन्काले विचित्रो भवति २ । प्रयोगविस्रसाभ्यां जनितो जीवानां परिणमनव्यापारःकरणं क्रिया तस्या अनुग्राहकः काल: । तद्यथा-नष्टो घटः, सूर्यं पश्यामि, भविष्यति वृष्टिरित्यादिका अतीतादिव्यपदेशाः परस्परासंकीर्णा यदपेक्षया प्रवर्तन्ते, स कालः ३ । इदं परमिदमपरमितिप्रत्ययाभिधाने कालनिमित्ते ४ - ५ । तदेवं वर्त्तनाद्युपकारानुमेयः कालो द्रव्यं मानुषक्षेत्रे । मनुष्यलोकाबहिः कालद्रव्यं नास्ति । सन्तो हि भावास्तत्र स्वयमेवोत्पद्यन्ते व्ययन्त्यवतिष्ठन्ते च । अस्तित्वं च भावानां स्वत एव, नतु कालापेक्षम् । न च तत्रत्याः प्राणापाननिमेषोन्मेषायुःप्रमाणादिवृत्तयः कालापेक्षाः, तुल्यजातीयानां सर्वेषां युगपदभवनात् । कालापेक्षा ह्यर्थास्तुल्यजातीयानामेकस्मिन् काले भवन्ति, न विजातीयानाम् । ताश्च प्राणादिवृत्तयस्तद्वतां नैकस्मिन्काले भवन्त्युपरमन्ति चेति । तस्मान्न कालापेक्षास्ताः । परत्वापरत्वे अपि तत्र चिराऽचिरस्थित्यपेक्षे, स्थितिश्चास्तित्वापेक्षा, अस्तित्वं च स्वत एवेति । ये तु कालं द्रव्यं न मन्यन्ते, तन्मते सर्वेषां द्रव्याणां वर्तनादयः पर्याया एव सन्ति, न त्वपेक्षाकारणं कश्चन काल इति ।।४।। व्याख्या का भावानुवाद : काल द्वारा पदार्थो के वर्तनादि परिणमनस्वरुप उपकार होता है। अथवा पदार्थो के वर्तनादि उपकार काल के लिंग है। तत्त्वार्थसूत्र अ. ५।२२ में कहा है कि - वर्तना, परिणाम, क्रिया, परत्व और अपरत्व, ये पांच काल के उपकार है। स्वयं पदार्थ वर्तन करता है। वे स्वयं वर्तन करनेवाले पदार्थो को सहायता देने के कालकी प्रवृत्ति (शक्ति) को वर्तना कहा जाता है। प्रथम समय में होनेवाली पदार्थ की स्थिति वह वर्तना है। ____ (E-97) - तु० पा० प्र० प० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004074
Book TitleShaddarshan Samucchaya Part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages756
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy