________________
षड्दर्शन समुञ्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
९७/ ७२०
यथा देवस्य स्वशक्तिप्रभावान्मनुष्याणां चाञ्जनविद्यामन्त्रैरन्तर्धाने शरीरं चक्षुषानुपलभ्यमानमपि विद्यमानं चेतनावञ्चाध्यवसीयते, एवं वायावपि चक्षुह्यं रूपं न भवति, सूक्ष्मपरिणामात, परमाणोरिव वहिनदग्धपाषाणखण्डिकागताचित्ताग्नेरिव वा । प्रयोगश्चायम्-चेतनावान् वायुः, अपरप्रेरिततिर्यग-ऽनियमितदिग्गतिमत्त्वात्, गवाधादिवत् । तिर्यगेव गमननियमादनियमितविशेषणोपादानाञ्च परमाणुना न व्यभिचारः, तस्य नियमितगतिमत्त्वात, “जीवपुद्गलयोरनुश्रेणिः” इति वचनात । एवं वायुरशस्त्रोपहतश्चेतनावानवगन्तव्यः ।।४।। बकुलाशोकचम्पकाद्यनेकविधवनस्पतीनामेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभाञ्जि भवन्ति । तथाहि-यथा पुरुषशरीरं बालकुमारयुववृद्धतापरिणामविशेषवत्त्वाचेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते तथेदं वनस्पतिशरीरम,यतो जातः केतकतरुर्बालको युवा वृद्धश्च संवृत्त इति, अतः पुरुषशरीरतुल्यत्वात् सचेतनो वनस्पतिरिति । तथा यथेदं मनुष्यशरीरमनवरतं बालकुमारयुवाद्यवस्थाविशेषैः प्रतिनियतं वर्धते, तथेदमपि वनस्पतिशरीरमङ्कुर-किसलयशाखाप्रशाखादिभिर्विशेषैः प्रतिनियतं वर्धत इति । तथा यथा मनुष्यशरीरं ज्ञानेनानुगतं एवं वनस्पतिशरीरमपि, यतः शमीप्रपुनाटसिद्धेसरका-सुन्दकबच्छूलागस्त्यामलकीकडिप्रभृतीनां स्वापविबोधतस्तद्भावः । तथाधोनिखातद्रविणराशेः स्वप्ररोहणावेष्टनम् । तथा वटपिप्पलनिम्बादीनां प्रावृड्जलधरनिनादशिशिरवायुसंस्पर्शादङ्कुरोद्भेदः । तथा मत्त-कामिनीसनूपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसुमाद्भेदः । तथा युवत्यालिङ्गनात् पनसस्य । तथा सुरभिसुरागण्डूषसेकाप्टकुलस्य । तथा सुरभिनिर्मलजलसेकाञ्चम्पकस्य । तथा कटाक्षवीक्षणात्तिलकस्य । तथा पञ्चमस्वरोद्गाराच्छिरीषस्य विरहकस्य च पुष्पविकिरणम् । तथा पद्मादीनां प्रातर्विकसनं, घोषातक्यादिपुष्पाणां च संध्यायां, कुमुदादीनां तु चन्दोदये । तथासन्नमेघप्रवृष्टौ शम्या अवक्षरणम् । तथा वल्लीनां वृत्त्याद्याश्रयोपसर्पणम् । तथा लज्जालूप्रभृतीनां हस्तादिसंस्पर्शात्पत्रसंकोचादिका परिस्फुटा क्रियोपलभ्यते । अथवा सर्ववनस्पतेर्विशिष्टर्तुष्वेव फलप्रदानं, न चैतदनन्तराभिहितं तरुसंबन्धिक्रियाजालं ज्ञानमन्तरेण घटते । तस्मात्सिद्धं चेतनावत्त्वं वनस्पतेरिति । व्याख्या का भावानुवाद :
जैसे स्वशक्ति के प्रभाव से देव का शरीर दृष्टिगोचर बनता नहीं है। तथा अंजन, विद्या और मंत्र इत्यादि के प्रयोग द्वारा योगी ऐसे मनुष्यो का शरीर भी दृष्टिगोचर बनता नहीं है, फिर भी विद्यमान है। और चेतना वाला होता है। इस अनुसार से परमाणु तथा वह्नि से जले हुए पथ्थर (पाषाण) और इंट के टुकडे इत्यादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org