________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
(A-50) "ते च माध्यमिकयोगाचारसौत्रान्तिकवैभाषितसंज्ञाभिः प्रसिद्धा बौद्धा यथाक्रमं सर्वशून्यत्वबाह्यार्थशून्यत्व - बाह्यार्थानुमेयत्व - बाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते ।" - सर्वद० बौद्धद० “चतुष्प्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः ॥ अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते । सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः । आकारसहिता बुद्धिर्योगाचारस्य सम्मता । केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः || ” विवेकवि० ८।२७१-७३ ।
५३२
,
(A-51) दीघनिकायादिषु सप्त एव तथागताः स्मृताः । तथाहि "सप्त तथागताः । तद्यथा-विपश्यी, शिखी, विश्वभूः, क्रकुच्छन्दः, कनकमुनिः कश्यपः, शाक्यमिनिश्चेति ।" धर्मसं० पृ २ । दीघ० महापदानसुत्त, आटानाटियसुत्त। “बुद्धाः स्युः सप्त ते त्वमी ॥ विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः । काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥" अभिधान० २।१४९-५० । जातकादिषु अष्टाविंशतिर्बुद्धाः संसूचिताः, तथाहितण्हंकरो मेघंकरो अथोऽपि सरणंकरो । दीपंकरो च संबुद्धो कौण्ड दिपदुत्तमो || मंगलो च सुमनो च रेवतो सोभितो मुनी । अनोमदस्सी पद्मो नारदो पद्युत्तरो। सुमेघो च सुजातो च पियदस्सी महायसो। अत्थदस्सी धम्मदस्सी सिद्धत्थो लोकनायको ॥ तिस्सो फुस्सो च संबुद्धो विपस्सी सिखी विस्सभू ककुसंघो कोणागमणो कस्सपो चापि नायको || ऐते अहेसुं संबुद्धा वीतरागा समाहिता । सतरंसीव उप्पन्ना महातमविनोदना || जलिन्ता अग्गिखन्दाभ बिव्वुता ते ससावका" जातक, निदानकथा, बुद्धवंसो पि० २७ ।
(A-52) “न्याय: पञ्चावयववाक्यादिः तं वेत्त्यधीते वा नैयायिकः । " - अभिधान० ३।५२६ ।
(A-53) “पञ्चविंशतेस्तत्त्वानां संख्यानं संख्या, पदधिकृत्य कृतं शास्त्रं सांख्यं तद्वेत्ति अधीते वा सांख्यः ।" अभिधान० ३।५२६ । " सांख्यां संख्यात्मकत्वाच्च कपिलादिभिरुच्यते ।" मात्स्यपु० अ० ३ । “अस्य च सांख्यसंज्ञा सान्वया-संख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । तत्त्वानि च चतुर्विंशत् तेन सांख्याः प्रकीर्तिताः ।। इत्यादिभ्यः भारतादिवाक्येभ्यः । संख्या सम्यग्विवेकेन आत्मकथनमित्यर्थः ।" सांख्यप्र० पृ० ५ ।
(A-54) बौद्धमते काषायवस्त्रपरिधानं विहितम्, "कासावानि परिधापित्वा..." विनय० महावग्ग । "काषायवासाः स बभौ ..." बुद्धच० पृ० १५ । " अनुजानामि भिक्खवे छ र जनानि-मूलरजनं खन्धरजनं तचरजनं पत्तरजनं पुप्फरजनं फलरजनं" विनय० महावग्ग ८।१३।२० ।
(A-55) "उद्धृतोऽयम् - सूत्र० शी० ३।४ ।"
(A-56) उद्धृतेयम् - सूत्र० शी ० ३।४ । छाया - " मनोज्ञं भोजनं भुक्त्वा मनोज्ञे शयनासने। मनोज्ञे अगारे मनोज्ञं ध्यायन्मुनिः ॥"
(A-57) “अनुजानामि भिक्खवे, तिकोटिपरिसुद्धं, मंसं अदिट्टं असुतं अपरिसंकितं च ।" विनय० महावग्ग ६।१६।३५ । मज्झिम० जीवकसु० २।१।५ ।
(A-58) “भिक्खु अन्तरघरं पविट्ठो बीथि पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सावी संवुतो गच्छति, न हत्थि ओलोकेन्तो, न अस्सं, न रथं, न पत्ति, न इत्थि, न पुरिसं ओलोकेन्तो, न उद्धं उल्लोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं पेक्खमानो गच्छति ( महानिद्देस ४७४ ) " विसुद्धि० पृ० १३ । "अलोलचक्षुर्युगमात्रदर्शी निवृत्तवाग्यन्त्रितमन्दगामी । चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः ॥” शुद्धच० १०।१३ । (A-59) “तत्र प्रथमं तावत् त्रीणि रत्नानि । तद्यथा बुद्धो धर्मः संघश्चेति । " धर्मसं० पृ० १ ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org