SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुञ्चय भाग - १, श्लोक - १७, १८, १९, नैयायिक दर्शन १४७ । यथोक्तविशेषणं ज्ञानं प्रत्यक्षमिति हि तत्रार्थः स्यात् । तथा चाकारकस्य ज्ञानस्य प्रत्यक्षत्वप्रसक्तिः, न चाकारकस्य प्रत्यक्षत्वं युक्तं, असाधकतमत्वात्साधकतमस्यैव च प्रमाणत्वात् । तुलासुवर्णादीनां प्रदीपादीनां सन्निकर्षेन्द्रियादीनांचाबोधरुपाणामप्रत्यक्षत्वप्रसङ्गश्च । इष्यते चैषां सूत्रकृता प्रत्यक्षत्वं, तन्न स्वरूपविशेषणपक्षो युक्तः । नापि सामग्रीविशेषणपक्षः । सामग्रीविशेषणपक्षे ह्येवं सूत्रार्थः स्यात् । प्रमातृप्रमेयचक्षुरादीन्द्रियालोकादिका ज्ञानजनिका सामग्रीन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशिष्टज्ञानजननादुपचारेणेन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशिष्टा सती प्रत्यक्षमिति । एवं च सामग्र्याः सूत्रोपात्तविशेषणयोगित्वं तथाविधफलजनकत्वादुपचारेणैव भवति, न तु स्वत इति । न तु युक्तस्तत्पक्षोऽपि । फलविशेषणपक्षस्तु युक्तिसंगतः । अत्र पक्षे यत इत्यध्याहार्यम् । B-7°ततोऽयमर्थः । इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणं ज्ञानं यत इन्द्रियार्थसन्निकर्षादेर्भवति, स इन्द्रियार्थसन्निकर्षादिः प्रत्यक्ष प्रमाणम् । ज्ञानं च प्रत्यक्षप्रमाणफलम् । यदा तु ततोऽपि ज्ञानाद्धानोपादानादिबुद्धय उत्पद्यन्ते, तदा हानादिबुद्ध्यपेक्षया ज्ञानं प्रमाणं हानादिबुद्धयस्तु फलं, “यदा ज्ञानं प्रमाणं, तदा हानादिबुद्धयः फलम्” इति वचनात् [न्यायभा. १/१/३] । यथा चानुभवज्ञानवंशजायाः स्मृतेस्तथा चायमित्येतज्ज्ञानमिन्द्रियार्थसन्निकर्षजत्वात्प्रत्यक्षफलम् । तत्स्मृतेस्तु प्रत्यक्षता । सुखदुःखसंबन्धस्मृतेस्त्विन्द्रियार्थसन्निकर्षसहकारित्वात्तथा चायमिति सारूप्यज्ञानजनकत्वेनाध्यक्षप्रमाणता । सारूप्यज्ञानस्य च सुखसाधनोऽयमित्यानुमानिकफलजनकत्वेनानुमानप्रमाणता । न च सुखसाधनत्वशक्तिज्ञानमिन्द्रियार्थसन्निकर्षजं, शक्तेरसन्निहितत्वात् । आत्मनो मनइन्द्रियेण सन्निकर्षे सुखादिज्ञानं फलम् ।मनइन्द्रियस्य तत्सन्निकर्षस्य च प्रत्यक्षप्रमाणता । एवमन्यत्रापि यथार्ह प्रमाणफलविभागोऽवगन्तव्य इति । एतदेवेन्द्रियार्थसन्निकर्षादिसूत्रं ग्रन्थकारः पद्यबन्धानुलोम्येनेत्थमाह । “इन्द्रियार्थसंपर्कोत्पन्नम्" इत्यादि । अत्र संपर्कः संबन्धः । अव्यभिचारि चेत्यत्र चकारो विशेषणसमुञ्चयार्थः । अव्यभिचारिकमिति पाठे त्वव्यभिचार्येवाव्यभिचारिकं स्वार्थे कप्रत्ययः । व्यपदेशो नामकल्पना । अत्रापि व्याख्यायां यत इत्यध्याहार्यम् । भावार्थः सर्वोऽपि प्राग्वदेवेति । टीकाका भावानुवाद : यहाँ सूत्र में (प्रत्यक्षका जो लक्षण किया है, उस सूत्रमें) (१) फल, (२) स्वरुप और (३) सामग्री ऐसे तीन विशेषण पक्ष संभवित है। उस तीन विशेषण पक्षमें 'स्वरुपविशेषण' पक्ष युक्त नहीं है। (यदि स्वरुपविशेषण पक्ष स्वीकार करोंगे तो) यथोक्त विशेषण से युक्त ज्ञान प्रत्यक्ष है। ऐसा उस सूत्र का अर्थ होगा और इसलिए अकारक ऐसे ज्ञान के प्रत्यक्षत्व की आपत्ति आयेगी और अकारकज्ञान का प्रत्यक्षत्व युक्त नहीं है। क्योंकि अकारकज्ञान (B-79) - तु० पा० प्र० प० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004073
Book TitleShaddarshan Samucchaya Part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages712
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy