________________
१२६
षड्दर्शन समुञ्चय भाग - १, श्लोक - १२, नैयायिक दर्शन
।। अथ द्वितीयोऽधिकारः ।।। नैयायिक दर्शन ।। (मूल श्लो०) नैयायिकमतस्येतः, कथ्यमानो निशम्यताम् ।। १२-उत्तरार्ध ।। श्लोकार्थ : यहाँ से कहा जाता नैयायिक मत सुनिये । ॥१२॥ नैयायिकमतस्य शैवशासनस्य संक्षेप इत उर्ध्वं कथ्यमानो निशम्यतां श्रूयताम् ।।
अथादौ नैयायिकानां यौगापराभिधानानां लिङ्गादिव्यक्तिरुच्यते । ते च दण्डधराः प्रौढकौपीनपरिधानाः, कम्बलिकाप्रावृताः, जटाधारिणः, भस्मोद्धूलनपराः यज्ञोपवीतिनः, जलाधारपात्रकराः, नीरसाहाराः, प्रायो वनवासिनो द्रोर्मूले तुम्बकं बिभ्राणाः, कन्दमूलफलाशिनः, आतिथ्यकर्मनिरताः, सस्त्रीकाः, निस्त्रीकाश्च । निस्त्रीकास्तेषूत्तमाः । ते च पञ्चाग्निसाधनपराः करे जटादौ च प्राणलिङ्गधराश्चापि भवन्ति । उत्तमां संयमावस्था प्राप्तास्तु नग्ना भ्रमन्ति । एते प्रातर्दन्तपादादिशौचं विधाय शिवं ध्यायन्तो भस्मनाङ्गं त्रिस्त्रिः स्पृशन्ति । यजमानो वन्दमानः कृताञ्जलिर्वक्ति “ओं नमः शिवाय” इति । गुरुस्तथैव “शिवाय नमः” इति प्रतिवक्ति । ते च संसद्येवं वदन्ति- “शैवीं दीक्षां द्वादशाब्दी सेवित्वा योऽपि मुञ्चति । दासी दासोऽपि भवति सोऽपि निर्वाणमृच्छति ।।१।।" []
तेषामीश्वरो देवः सर्वज्ञः सृष्टिसंहारादिकृत् । तस्य चाष्टादशावतारा अमी-नकुली १,शोष्यकौशिकः २, गार्ग्यः ३, मैत्र्यः ४, अकौरुषः ५, ईशानः ६, पारगार्ग्यः ७, कपिलाण्डः ८, मनुष्यकः ९, कुशिकः १०, अत्रिः ११, पिङ्गलः १२, पुष्पकः १३, बृहदार्यः १४, अगस्तिः १५, संतानः १६, राशीकरः १७, विद्यागुरुश्च १८ । एते तेषां तीर्थेशाः पूजनीयाः । एतेषां पूजाप्रणिधानविधिस्तु तदागमाद्वेदितव्यः । तेषां सर्वतीर्थेषु भरटा एव पूजकाः । देवानां नमस्कारो न सन्मुखैः कार्यः । तेषु ये निर्विकारास्ते स्वमीमांसागतमिदं पद्यं दर्शयन्ति-“न स्वधुनी न फणिनो न कपालदाम, नेन्दोः कला न गिरिजा न जटा न भस्म । यत्रान्यदेव च न किंचिदुपास्महे तद्रुपं पुराणमुनिशीलितमीश्वरस्य ।। १ ।। स एव योगिनां सेव्यो ह्यर्वाचीनस्तु भोगभाक् । स ध्यायमानो राज्यादिसुखलुब्धैर्निषेव्यते ।। २ ।।” उक्तं च तैः स्वयोगशास्त्रे-“वीतरागं स्मरन्योगी वीतरागत्वमश्नुते, सरागं ध्यायतस्तस्य सरागत्वं तु निश्चितम् ।। ३ ।। येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ।। ४ ।।" इति ।। टीकाका भावानुवाद :
यहाँ से आगे कहा जानेवाला नैयायिकमत कि जिसका दूसर! नाम शैवशासन है, उसका संक्षेप सुनिये । अब शुरुआत में 'योग' जिन का दूसरा नाम है वे नैयायिको के लिंग, वेष और आचार को कहते है। वे नैयायिक दंड को धारण करनेवाले, प्रौढ (बड़ी) लंगोट को धारण करनेवाले, शरीर के उपर भस्म लगानेवाले, जनेऊ को धारण करनेवाले, हाथ में पानी पीने के लिए पात्र रखनेवाले, नीरस आहार करनेवाले, कंदमूल और फल खानेवाले आतिथ्यकर्म में निरत, स्त्री को रखनेवाले और स्त्री को नहिं रखनेवाले होते है। उसमें
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org