________________
७६
षड्दर्शन समुञ्चय भाग - १, श्लोक - १०, बोद्धदर्शन
यद्यपि मिथ्या (अयथार्थ) है, तो भी अनुमान से प्रवृत्ति करने से अर्थक्रिया हो जाती है। (इस लिए अर्थक्रिया के अनुरोध से) अनुमान में प्रमाणता आती है। अनुमानाभास में प्रमाणता नहीं आती।"
तथानुमानलक्षणमाह-“त्रिरूपाल्लिङ्गतः” अइत्यादि । त्रीणि रुपाणि पक्षधर्मत्वादीनि वक्ष्यमाणानि यस्य तत्त्रिरूपं त्रिस्वभावमित्यर्थः । तस्मात्रिरूपाल्लिङ्गाद्धेतोः सम्यगवगताल्लिङ्गिनः परोक्षस्य वस्तुनो यज्ज्ञानं, तदनुमानसंज्ञितं प्रमाणम् । अनु पश्चाल्लिङ्गग्रहणादनन्तरं परोक्षस्य वस्तुनो मानं ज्ञानमनुमानमिति ह्यनुमानशब्दस्यार्थः । अत्र श्लोके चरमपादस्य नवाक्षरत्वेऽप्यार्षत्वान्न दोषः । इदमत्र तत्त्वम्-यथा जने छत्रादिलिङ्गैर्दृष्टैर्लिङ्गी राजा निश्चीयते, तथा त्रिरूपेण लिङ्गेन धूमादिना क्वचिदुपलब्धेन परोक्षः पदार्थो लिङ्गी वहन्यादिस्तत्र सन् विज्ञायते । इदं च लिङ्गाल्लिङ्गिज्ञानमनुमानमभिधीयते । तञ्च द्वेधा,B-17 स्वार्थं परार्थं च । यदा च त्रिरूपाल्लिङ्गात् स्वयं लिङ्गिनं साध्यं प्रतिपद्यते, तदा स्वार्थमनुमानम् । यदा तु परं प्रति साध्यस्य प्रतिपत्तये त्रिरूपहेत्वभिधानं, तदा परार्थमनुमानमिति । ‘लिङ्गिज्ञानं तु" इति । अत्र तशब्दो विशेषणार्थ इदं विशिनष्टि । अत्र यत्त्रिरूपं लिङ्गं लिङ्गिनो गमकमुक्तं, तल्लिङ्गमनुपलब्धिस्वभावकार्यभेदात्त्रिधैव-18 भवतीति । तत्रानुपलब्धिश्चतुर्धा वर्ण्यते मूलभेदापेक्षया । तद्यथा । विरुद्धोपलब्धिः, विरुद्धकार्योपलब्धिः, कारणानुपलब्धिः, स्वभावानुपलब्धिश्च । विरुद्धोपलब्धिर्यथा नात्र शीत स्पर्शोऽग्नेः । विरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमात् । कारणानुपलब्धिर्यथा नात्र धूमोऽग्न्यभावात् । स्वभावानुपलब्धिर्यथा नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । शेषास्तु सप्ताप्यनुपलब्धयो धर्मबिन्दु(न्यायबिन्दु)प्रभृतिशास्त्रप्रतिपादिता-1 एष्वेव चतुर्यु भेदेष्वन्तर्भवन्तीति प्रतिभेदरूपत्वान्नात्र पृथगभिहिताः । B-20स्वभावहेतुर्यथा वृक्षोऽयं शिंशपात्वात् । B-2 कार्यहेतुर्यथाग्निरत्र धूमात् । एषु चानुपलब्ध्यादिषु त्रिषु हेतुषु B-22तादात्म्यतदुत्पत्तिसंबन्धबलादविनाभावो विद्यते, आद्यान्त्ययोरनुपलब्ध्योः स्वभावहेतोश्च तादात्म्यभावात्, मध्ययोरनुपलब्ध्योः कार्यहेतोश्च तदुत्पत्तिसद्भावात् । अविनाभावश्च तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तः । तादात्म्यतदुत्पत्ती चानुपलब्धिस्वभावकार्येष्वेव विद्येते, नान्यत्र । ततस्तादात्म्यतदुत्पत्तिप्रतिबन्धविकलानामनुपलब्धिस्वभावकार्यव्यतिरिक्तानामर्थानां सर्वेषां हेत्वाभासतैव प्रत्येतव्या । तेन संयोग्यादिका8-23 वैशेषिकादिकल्पिता हेतवो न भवन्ति, व्यभिचारस्य संभवात् । कारणात्कार्यानुमानं तु व्यभिचारित्वेनैव नाभ्युपगम्यते । यदपि रसतः समानसमयस्य रूपादेरनुमानं सौगतैरभ्युपगतं,B-24 यदपि समग्रेण हेतुना कार्योत्पादानुमानं च, ते अपि स्वभावानुमानतयाभ्युपेते । तथाहि-ईदृशरूपान्तरोत्पादसमर्थः प्राक्तनो रूपक्षणः, ईदृशरसजनकत्वात्, पूर्वोपलब्धरूपवदिति रूपान्तरोत्पादरूपसामर्थ्यानुमानम् । योग्येयं (अ) तत्र स्वार्थं त्रिरुपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम् । न्यायबि० ॥२।३।।
(B-17-18-19-20-21-22-23-24) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org