________________
५८४
दमयन्ती-कथा-चम्पू: ऽसि ? । १३नामबालेयम् अविनीयेतम्, आग्रहग्रस्तेयम्१४, इति केनापि कर्णे जपेन तातस्य हृदयाद्रीकृताहमिति५ । वन्द्याः खलु गुरवो देवाश्च बिभेमि तेभ्य१६ इति प्रियंवदिकाख्यया सख्या सार्धमन्यालापलीलामकरोत्१७ ।
साऽपि-दमयन्ती शोकेन स्मितेन च-ईषद्धास्येन मुग्धं रम्यं नम्र-नतं मुखं यस्याः सा एवंविधा सती इति प्रियंवदिकाख्यया सख्या सार्द्ध अन्या-अहं तान् अङ्गीकरिष्ये न वा? इत्येवंरूपोत्तरप्रदानादपरा या आलापलीला-सम्भाषणविलासस्तामकरोत् । अर्थिनोऽपि लोकपालान् प्रत्यवज्ञां नलं प्रत्यनुरागाग्रहं च अन्यालापव्याजेन प्रतिपादयाञ्चक्रे इत्यर्थः । इतीति किम् ? हंइति रोषभाषणे, सरोषा ब्रूत इत्यर्थः । “हरोषभाषणे अनुनयेऽपिच" [परिशिष्ट २४] इत्यनेकार्थः । हे प्रियंवदिके ! प्रियं-इष्टं अस्माकं जीवितं-प्राणधारणं यस्याः सा एवंविधया अम्बया-मात्रा तातेन च-पित्रा मध्याह्ने समाहूय-आकार्य त्वं किं उक्तासि ? तव किमुक्तमित्यर्थः । तथा किं शिक्षितासि-का शिक्षा तव प्रदत्तेति भावः । नामेति वितर्के, इयं-भैमी बाला अविनीताअविनयवती, तथा इयं आग्रह:-हठस्तेन ग्रस्ता-व्याप्ता इति कथनेन केनाऽपि कर्णेजपेन-पिशुनेन तातस्य हृदयात् अहं किं दूरीकृता न इति वितर्कः । खलु-अनुनये, अनुनयः-प्रसादनं, गुरूणामेव गुरव:-पित्रादयो देवाश्च वन्द्या:-नमस्कर-णीयास्तेभ्यो गुरुभ्यो देवेभ्यश्च बिभेमि ।
नलोऽपि 'मदिराक्षि, मदनयति१८ मदिरा, तरलयति तारुण्यम्, अन्धयति धनम्, उत्पथयति मन्मथः, विरूपयति रूपाभिमानः, खर्वयति गर्वः इति १९सर्वजनप्रसिद्धमेतत् । किंतु त्वमिदमसत्यतां२० मानैषी:२१ । व्यभिचरतु२२ तवाङ्गे सर्वमेतत् । न हि शशिनि वह्निः, अमृते च विषाङकुरा:२३ संभवन्ति । २४तदिमं देवादेशं मावज्ञासीः । सर्वज्ञा प्रभवन्ति प्राणिनाममी लोकपालाः । तत्रापि विशेषतः सकलत्रिदशाधिपतिरशेषसुरकिरीटमणिमयूखमालार्चितचरणारविन्दपुरन्दरो देवः । तद्वणु२५ कमप्यमीषाममृतभुजां मध्ये । मानय स्वर्गसुखानि । अभूमिरसि मर्त्यलोक-स्तोकसुखानाम्' इति पुनस्तामभ्यधात् ।
नलोऽपि इति-अमुना प्रकारेण पुनः-भूयस्ता-दमयन्ती अभ्यधात्-उवाच । इतीति किम् ? "मदिरे-हर्षदायिनि प्रान्तरक्ते च नेत्रे" [ ] इति रतिरहस्योक्तत्वात् । प्रान्तशोणे वा अक्षिणी-नेत्रे यस्याः सा मदिराक्षी तस्याः सम्बोधने हे मदिराक्षि ! दमयन्ति !
१. हर्षदायिनी अनू. । २. रति नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org