SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ४९८ दमयन्ती-कथा-चम्पू: इह निषधनृपाज्ञा तस्य यः क्वापि कोऽपि, क्लममुषि तरुखण्डे खण्डनं वा करोति' ॥७७॥ अपि च-पुनः सुरेति । हे सैनिकाः !-चमूचराः ! भवन्तः सुरसदनेषु- देवकुलेषु निवासं मा स्म कुर्वन्-मा कुर्वन्तु । तथा सरिति-नद्यां मुनिकुटीनां-आश्रमाणां भङ्ग-विनाशं उल्लुण्टनं वातद्दारुतृणादीनां चौर्यं मा स्म कुर्वन् । इह तरुखण्डे-द्रुमवने यः कोऽपि-पुरुषः क्वापिकस्मिन्नपि प्रदेशे खण्डनं च करोति तस्य निषधनृपस्य-नलस्य आज्ञा-शपथः, न केनाऽपि तरुखण्डखण्डनं विधेयमियर्थः । किम्भूते तरुखण्डे ? क्लमं- मार्गश्रमं छायादिना मुष्णातिअपनयतीति क्लममुट् तस्मिन् । मालिनी । ॥ ७७ ॥ एवमनुशासति बलानि बहुधा बाहुके, तत्क्षणादुत्तम्भितैः प्रेङखत्पताकापटपल्लवविराजितैः प्रयाणयोग्ययन्त्रचित्रशालागृहैः सञ्चारिणि गन्धर्वनगर इव रमणीये, हरिततोरणैरुड्डीनशुकावलीमय इव, गैरिकारक्तोन्नमितपटकुटीभिरुत्फुल्लकिंशुकमय इव, श्वेतांशुकमण्डपैः३ ताण्डवितपुण्डरीकखण्डमण्डप इव, जाते सरित्सङ्गमोत्सङ्गसङ्गिनि शिबिरसंनिवेशे, क्रमेणाक्रान्तसकलदिङ मुखेषु निषधेश्वरागमनवार्तानिवेदनदूतेष्विव विदर्भराजधानीधामनिगतेषु बहलसैन्यधूलिपटलेषु, विरसति विपक्षक्षितिपालकर्णपुटीकटुनि नवजलधरध्वनिगम्भीरे" तत्कालप्रहतशङ्खसखप्रयाणझल्लरीझांकृते, स्वयंवरायातसमस्तराजन्यचक्रकर्णकर्तरीषु पठ्यमानासु सानन्दवन्दारुबन्दिवृन्दारकवृन्देनोच्चैनलनाममालासु, क्षणादेवोत्तम्भितशातकुम्भस्तम्भ भवने मृदुमसृणास्तरणभाजि जात्यवैदूर्यपर्यङ्किकायां१० सुखनिषण्णे राजनि, सुस्थिते च परिजने, नातिदूरवति११ कुण्डिने दण्डपाशिक २स्योच्चैर्वागुदतिष्ठत् ।। __एवं-अमुना प्रकारेण बहुधा-अनेकप्रकाराणि हस्त्यश्वादिभेदात् बलानि-सैन्यानि बाहुके-सेनापतौ अनुशासति-शिक्षयति सति । तथा शिबिरसन्निवेशे-कटकरचनायां सरित्सङ्गमस्य य उत्सङ्गः-पुलिनभूमिस्तस्मिन् सङ्गः-सम्बन्धो विद्यते यस्य स तस्मिन् सरित्सङ्गमोत्सङ्गसङ्गिनि जाते सति, नदीपुलिने सैन्ये स्थिते सतीत्यर्थः । किम्भूते शिबिरसन्निवेशे ? तत्क्षणात्-अवस्थानसमकालमेव उत्तम्भितैः-वंशादिना उच्चैः कृतैः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy