SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४२९ निष्कासितानि पन्नगनेत्राणि-साक्षीणि येषु ते एवम्विधाः, इत्यमन्दरागत्वे हेतुः । तथा स्फुरन्ती-दीप्यमाना मणीनां भित्ति:-कुड्यं येषु ते तथाविधाः सन्ति । पक्षे-मन्दरःमन्दराख्यो अगा:-पर्वताः । ते किम्भूताः ? उत्कृष्टा-उद्धृता सुरभिः-धेनुः श्रीः-लक्ष्मीः द्रुमः-पारिजातश्च यैस्तथाविधाः । मन्दरेण हि सुरभिप्रभृतीन्यम्भोधेरुद्धृतानि२ । सुरभिःधेनुः, इह तु प्रस्तावात् कामधेनुः । यद्विश्वप्रकाश:-"सुरभिश्चम्पके स्वर्णे जाती पुष्पवसंतयोः । गन्धोत्पले सौरभेय्यां" [भान्त. ३१] इति । तथा बलिः-दैत्यस्य हरेश्चविष्णोः करैराकृष्टं-भ्रमितं पन्नगः-वासुकिलक्षणं नेत्रं मन्थाना-कर्षणरज्जुर्यत्र ते स्फुरन्मणिभित्तयश्च । तथा केपि कैलासकूटा इव आचरन्तः कैलास-कूटायमानाःकैलाशशिखरोपमाः । किम्भूताः ? सह स्थाणुभि:-स्थिरपदार्थैर्वर्तन्त इति सस्थाणवः, तथा दुर्गा-विन्ध्यवासिनी देवी तस्याः- आश्रयाः दुर्ग आश्रय आश्रयणं-आरोहणं येषां ते इति वा । तथा श्रूयमाणाः-आकर्ण्यमाना गजानां वदनचीत्काराः-बंहितानि येषु ते, तथा सगुहा:अखातविवरसहिताः, "गुहा पुनः । गह्वरे सिंहपुछ्यां च" [२/६११-१२] इत्यनेकार्थः । किम्भूताः कैलासकूटा: ? सस्थाणव:-सशिवाः, तथा दुर्गा-गौरी तस्या आश्रयाः, तथा श्रूयमाणो गजवदनस्य-हेरम्बस्य चीत्कारो येषु ते, तथा सगुहाः-सकात्तिकेयाः। ततः खलुर्वाक्यालङ्गारे । हे मन्त्रिन् ! अमी विन्ध्यस्कन्धस्य सन्निवेशा:-प्रदेशा: सेव्याः-सेवितुं योग्याः । किम्भूते जलस्थलीप्रदेशे ? अपरिमिता:-बहवः पतन्तो ये निर्झरजलतुषारा:प्रस्रवणाम्भोलवास्तेषां स्पर्शेन-सम्पर्केण मञ्जरिताः-सम्जातमञ्जरीका ये पादपास्तेषां यानि पुष्पाणि तेषां परिमलेन-आमोदेन मिलन्तः- राशीभवन्तो ये मधुकरास्तेषां झङ्कारेण हारिणि-मनोज्ञे, तथा रममाणानि-क्रीडन्ति यानि शबरमिथुनानि-शबरशबरीरूपाणि युग्मानि तेषां सम्मन-अङ्गपरिमलेन मृदिता-विच्छायीभूता अमन्दाः-अनल्पा मृदवः-सुकुमाराः शाद्वला:-नीलतृणानि यस्मिन् स तथा तस्मिन् । तैस्तैश्चिरन्तनवासरव्यापारैरहःशेषसहितामतिवाह्य तां? निशामनन्तरमुन्मिषत्पक्ष्मपक्षिपक्षावधूनन पवनैरिवापनीयमानेषु गगनचत्वरचर्चाप्रकारपाण्डुपुष्पपुञ्जेषु नक्षत्रेषु, स्वविरहोत्पन्नतमःकलङ्ककलुषितानि मनाक्कुङ्कुमपङ्कपिञ्जरकरैः परामृश्य प्रसादयति दिननाथे दिङमुखानि, पुनः पूर्वक्रमेण प्रस्थानमकरोत् । अहःशेषेण-दिवसावशिष्टभागेन सहितां तां निशान्तैस्तैरद्भुतैश्चिरन्तनवासराणांपूर्वकालीनदिवसानां ये व्यापारास्तच्चिन्तनरूपास्तैः कृत्वा अतिवाह्य-अतिक्रम्य अनन्तरंरात्रिगमनात् पश्चात् पुनर्भूयः पूर्वक्रमेण-पूर्वदिवसप्रस्थानपरिपाट्या प्रस्थानं-चलनमकरोत् । १. मन्दरागा:-मन्दराख्यपर्वताः अनू. । २. उद्धृतानि अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy