________________
२६८
दमयन्ती-कथा-चम्पू: भुजयुगं जानुनी स्पृशति दीर्घत्वात् । तथा यस्य जङ्घे वृत्ते-वर्तुले ये ते रम्ये च वृत्तरम्ये । तथा यस्य अवलग्नो मध्यप्रदेशः क्षामः-तनुः ।। १६ ॥ ।
अस्ति च तस्य नरपतिसूनोः समानशीलवयोविद्यालंकारकान्तिकलाकलापरिपूर्ण देहः शरीरमात्रद्वितीयोऽप्यद्वितीयं३ हृदयमे कं जीवितमपर उच्छासः सालङ्कायनसूनुः श्रुतशीलो नाम मन्त्री मित्रं च ।
अस्ति चेति । तस्य नरपतेः सूनोः-नलस्य सालङ्कायनस्य मन्त्रिणः सूनुः श्रुतशीलो नाम मन्त्री-सचिवो मित्रं च-सखा अस्ति-विद्यते । किम्भूतः ? समान:-तुल्यो यः शील च-सद्वृत्तं, वयश्च-कालावस्था, विद्याश्च-शास्त्राणि, अलङ्काराश्च-विभूषणानि, कान्तिश्चदेहदीप्तिः, कला च-गीतनृत्यादिका तासां कलापः-समूहस्तेन परिपूर्णः-व्याप्तो देहो यस्य सः, तत्समानशीलादियुत इत्यर्थः । तथा शरीरमात्रेण-शरीरेणैव द्वितीयोऽपि अद्वितीयं अभिन्नं हृदयं-चित्तं एकं जीवितं प्राणाः, अपर इति न परोऽस्मादिति अपर:-उत्कृष्टः, यद्वा, अपरः-अनन्य उच्छ्वास-परस्परं स्नेहलत्वादित्यर्थः । ___एकदा तु पूर्वदिग्वधूकुङ्कुमपङ्कपल्लवितवदनायमाने निरुद्धान्धतमसे५ सौगन्धिकबन्धुनि बन्धूककुसुमारुणे वियति तरतीव तरुणतरे तरणिमण्डले, मण्डयति कुसुम्भकुसुमकेसरप्रकरायमाणे गगनाङ्गणमम्भोजमुकुलनिद्रा मुषि रोचिषां चये, चलिते च चरितु मुपवनतरुराजिकर्णोत्पले निद्राविरामविधुत१°पक्षे पक्षिकुले, कृतप्राभातिकर्मणः सभामणि११मण्डप१२मध्यवर्तिनो दत्तसेवावसरस्य राज्ञः प्रविष्टे मन्त्रिणि सालङ्कायने, प्रणामपर्यस्तकर्णोत्पलधवलित१३सभाङ्गणे यथासनमुपविष्टे प्रस्तुतसेवालापरञ्जितराजनि राजन्यचक्रे, प्रक्रान्ते शास्त्रीयविनोदे, श्रुतशीलेन सममन्यैरपि१४ क्रीडासहायैरनुचरैरनुगम्यमानो नलः सेवासुखमनुभवितुमागतवान् ।
___ आगत्य च क्षितितलमिलन्मौलिमण्डलः प्रणम्य पितुः पादारविन्द१५द्वयमदूरदत्तमासनं१६ भेजे ।
एकदा तु-एकस्मिन् कस्मिंश्चित्प्रस्तावे एवमेवं जायमाने सति श्रुतशीलेन समं अन्यैरपि क्रीडासहायैः-केलिसखैरनुगम्यमान:-अनुश्रियमाणो नलः सेवासुखं-पितृपर्युपास्तिसौख्यं अनुभवितुं-अनुशीलयितुं आगतवान् । क्व सति ? एवंविधे तरुणतरे-प्रत्यग्रे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org