________________
तृतीय उच्छ्वास:
पुष्पमनिष्पन्नाक्षरमल्पाल्पं जल्पन्ती ।
क्रमेण च-दिनपक्षमासाद्यतिक्रमपरिपाद्या अस्याः सुकुमाराः - कोमला: अङ्गावयवपल्लवाः-शरीरावयवरूपकिसलयानि प्रसतु वर्द्धितुं आरभन्त - प्रवर्तन्ते स्म । उत्प्रेक्ष्यते, प्रचुरामृतरसेन सिक्ता इव यथा अमृतेन जलेन सिक्ताः पल्लवाः वर्द्धन्ते तथा तदङ्गावयपल्लवा अपि । तथा कैश्चिद्दिवसै: - कियद्भिर्वासरैः चञ्चत्-दीप्यमानं यच्चामीकरं स्वर्णं तस्य या रुचिः - कान्तिस्तया रुचिरं मनोज्ञं यदङ्गणं-अजिरं तत्खचितत्वात्, तत्र या मणिवेदिका - मणिनिबद्धसंस्कृतभूमयस्तासु अनुच्चाभ्यांऊर्ध्वमनुक्षिप्ताभ्यां चरणाभ्यां यः प्रचार:- गमनं तस्मिन् या चापल्यलीला चञ्चलताविलासस्तां चकार । तथा कैश्चिद्दिवसैः बालकेली:- बालक्रीडाः जनयन्ती सती परिजनंतत्सेवानुवर्त्तिनं लोकं सहासं- हास्योपेतमकरोत्, बालकेलिं विधाय परिजनं अहासयदित्यर्थः । तथा कैश्चिद् दिवसैः स्वच्छन्दं - स्वेच्छया तरङ्गभङ्गिवत्-वीचिविच्छित्तिवत् यद् रङ्गितं गमनं तेन पितरं भीमं आनन्दयाञ्चकार - अहर्षयत् । तथा कैश्चिद् दिवसैः जननींप्रियङ्गुमञ्जरीं जातो विस्मय:- आश्चर्यं यस्या सा तथाविधामजीजनत् उत्पादयामास, आश्चर्यवन्ती चकारेत्यर्थः । किं कुर्वती ? स्मितेन मुग्धा - रम्या तथा दुग्धवत् स्निग्धा - चिक्कणा दर्शिता - प्रकटिता या दन्तकान्तिः सैव उज्ज्वलत्वात् कुन्दपुष्पमिव यत्र कर्मणि, ईदृशं यथा भवति तथा न निष्पन्नानि - स्फुटीभूतानि अक्षराणि यत्र, ईदृशं अव्यक्ताक्षरं यथा भवति तथा अल्पाल्पं- स्तोकं स्तोकं जल्पती - भाषमाणा । अल्पाल्पमिति एकं बहुव्रीहिवदिति पूर्वपदेसु लोपः ।
किं बहुना -
अपि रेणुकृतक्रीडं नरेऽणुक्रीडयान्वितम् ।
तस्याः प्रौढं शिशुत्वेऽपि वयो वैचित्र्यमावहत् ॥ २७ ॥
Jain Education International
किम्बहुना - किं बहूक्तेन
अपीति । रेणुना कृता क्रीडा यत्र तत्, तथा कस्तवां परिणेष्यति ? त्वं कस्मै दातव्या ? इत्याद्युक्तिभिर्नरेषु पुंसि विषये अणुक्रीडयान्वितं - अल्पकौतुककरं तस्यां सम्बन्धि वय: शिशुत्वेऽपि-शैशवेपि प्रौढं - प्रगल्भं वैचित्र्यमावहत् - दधौ । अपि :- विरोधार्थः, सचेत्थं यो रेणुना कृता क्रीडा येन ईदृशो स रेणुक्रीडया अन्वितः कथं न भवेत् ? किन्तु रेणुक्रीडासहित एव भवेत् ॥ २७ ॥
२२७
For Personal & Private Use Only
www.jainelibrary.org