SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ द्वितीय उवासः १५९ यदुखं तेन दून-पीडितं मनो ययोस्तौ । तयोः-दम्पत्यो मौ-क्षितौ राज्ये जने-लोके जीविते च-स्वीयं प्राणधारणे वैरस्य-विरागोऽभूत् । विनाऽपत्यं किमेभिरिति। अनेन सर्वथा सर्वप्रकारेण आधिपत्येन-ऐश्वर्येण अपत्यशून्येन किम् ? सर्वथा 'सकलसुरासुरकिरीटकोटिकोणमणि मरीचिचञ्चरीकचुम्बितचरणाम्बुजमम्बिकाप्रियं३ प्रतिपद्यामहे महेश्वरमित्यन्योन्यमालोचयांचक्रतुः । ततस्तौ इति अन्योन्यं-परस्परं आलोचनाचयाञ्चक्रतुः-विचारयामासतुः । इतीति किम् ? अम्बिकायाः प्रियं-वल्लभं महेश्वरं शम्भुं प्रतिपद्यामहे-२सेवामङ्गीकुर्महे । किम्भूतं महेश्वरम् ? सकला ये सुराश्च असुराश्च तेषां याः किरीटकोटयः-बहूनि मुकुटानि तेषां कोणेषु-अश्रेषु मणय:-इन्दुनीलाद्यास्तेषां या मरीचयस्ता एव चञ्चरीकचक्रं तेन चुम्बितंआलीढं चरणाम्बुजं यस्य स तं, सुरासुरैरपि प्रणतमित्यर्थः । अम्बुजं हि चञ्चरीके चुम्ब्यत एवेति छायार्थः । कोटिशब्दो बहुत्ववचनः । ___अथ विपुलवियद्विलङ्घनघनश्रम प्रशमनार्थमरुणेन वारुणी प्रतिपानार्थमिवावतार्यमाणेषु रविरथतुरंगमेषु, अपरासक्ते दिवसभर्तरि शोकभरादिव तमःपटलेनापूर्यमाणामाश्वासयितुमिव पूर्वां दिशमभिधावमानासु पादपच्छायासु, हारीतहरितहरिहारिणस्तरणेररण्यान्तराच्च मन्दमपवर्तमानेषु गोमण्डलेषु, अस्ताचलवनदेवतादत्तरक्तचन्दनाघसलिलप्लवप्लाव्यमान इव लोहितायति पश्चिमाशामुखे, वारविलासिनीभिः कपोलमण्डलीमण्डनाय क्रियमाणेषु पत्त्रभङ्गेषु । भयेनेव पादपैः प्रारब्धे पत्रसंकोचकर्मणि, विघटिष्यमाणचक्रवाककामिनीकरुणकूजितव्याजेन दिवसभर्तुरस्ताचलगमनं निवारयन्तीभिरिव विरहविधुराभिः कमलिनीभिर्विधीयमानेषु प्रार्थनाप्रणामाञ्जलिपुटेष्विव कमलमुकुलेषु, क्रमेण पश्चिमाम्भोधितर ङ्गान्तररुत्तरतस्तरुणतामरसानु"कारिकेसरायमाणरश्मिमञ्जरीजालजटिल६मवलोक्य तरणिमण्डलमतिसंभ्रमभ्रमभ्रमरनिकुरम्ब इव प्रधावमाने दूर तिमिरपटले, कृष्णागरु पङ्कपत्त्रभङ्गभूष्यमाणेष्विव दिगङ्गनामुखेषु, १. किमेतेरिति अनू. । २. तत्सेवा० अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy