SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ द्वितीय उच्छ्वासः यदनेकार्थ:-“मुग्धो मूढे रम्ये " [ २२४९] | तथा मनसि स्निग्धः-स्नेहलः । यत्र' क्रुद्धधूर्जटिललाटलोचनानलज्वालाकवलनाकुल:, त्रासाद पाङ्गावलोकनमात्रनिर्जितपरमेश्वरमनसां विलासिनीनामुच्चकुचकुम्भयोः शृङ्गारसर्वस्वम्, अधरपल्लवेषु मधु, भ्रूभङ गेषु धनुः, कटाक्षेषु पुष्पबाणान्निधाय निलीनोऽङ गेषु जघनस्थलस्थापितरतिर्मकरकेतनः । तथा यत्र-देशे क्रुद्धः-कुपितो यो धूर्जटि :- शम्भुस्तस्य यो ललाट-लोचनानलस्तस्य ज्वालाभिर्यत्कवलनं-भक्षणं तेन आकुल:- व्याकुलो मकरकेतनः - कामो विलासिनीनां - स्त्रीणां अङ्गेषु-कुचादिष्ववयवेषु स्वोपकरणानि शृङ्गारादीनि निधाय - स्थापयित्वा त्रासाद्भयाल्लीन:-निलीनः । किं किं कुत्र कुत्र निधाय ? इत्याह- उच्चकुचकुम्भयो:उन्नतपयोधरकलसयोः शृङ्गारसर्वस्वं शृङ्गाररूपं सर्वं धनं निधाय तथा अधरपल्लवेषु - ओष्ठकिसलयेषु मधुमद्यं - पुष्परसं च निधाय तथा भ्रूभङ्गेषु - भ्रूविलासेषु धनुश्चापं निधाय, तदाकृतित्वात्तेषाम् । तथा कटाक्षेषु- अर्द्धवीक्षणेषु पुष्पबाणान् निधाय । किम्भूतः ? तासां जघनस्थले स्थापिता रतिः - स्मरकान्ता सुरतं च येन स । ननु किमिति शम्भुभयात्तत्रैव निलीनः ? इत्याह-किम्भूतानां तासाम् ? अपाङ्गे- नेत्रप्रान्ते यदवलोकनं वीक्षणं तन्मात्रेण तेनैव निर्जितं परमेश्वराणां - धनवतां मनो यकाभिस्तास्तासाम् । अथ च परमेश्वर:- धूर्जटि: सोऽपि ताभिर्निर्जित इत्युक्तिलेशः । एतेन शरणागतत्राणवैभवं, कामस्य जेता शम्भु:, शम्भोश्चैता जैत्र्यस्तत्र एतासां सविधे गच्छन् कामो निर्भयो भवत्येव जेतृजेतृकत्वात्तासां । एतेन तद्देशे कामाधिक्यं दर्शितम् । १४१ यासां तारुण्यमेव सर्वाङ्गेषु शोभार्थमाभरणम्, उत्तुङ्गस्तनमण्डललावण्यमेव मुखकमलावलोकनाय दर्पणः, तारतरनयनकान्तिरेव मुखमण्डलमण्डनाय चन्दनललाटिका, भ्रूभङ्गा एव विभ्रमाय मृगमदपत्रभङ्गाः, कटाक्षा एव युवजनजयाय परमास्त्राणि, बन्धूककुसुमकान्तिदन्तच्छद एव लोकलोचनमनोमोहनाय माहेन्द्रमणिः, मुखकमलपरिमलागतमधुकरझंकार एव विनोदाय वीणाध्वनिः । तथा यासां - स्त्रीणां तारुण्यं - यौवनमेव सर्वाङ्गेषु - सर्वावयवेषु शोभार्थमाभरणंमण्डनम्। तथा यासां उत्तुङ्गं-उन्नतं यत्स्तनमण्डलं पयोधरयुगलं तस्य यल्लावण्यं तदेव १. अपांगेन नेत्रप्रान्तेन । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy