________________
द्वितीय उछासः
१३९ अथ सप्रपञ्चं देशवर्णनपुरस्सरं दमयन्तीस्वरूपमाह
अस्ति विस्तीर्णमेदिनीमण्डलमण्डनायमानो नगनगरपुरविहारारामरमणीयः सीतासहायसंचरितरघुपतिपादपद्मपवित्रारण्य: पुण्यतरतरङ्गगङ्गागोदावरीवारिवारितदुरितदावानलप्रसरः मन्दर इव बलिराजजनितपरिवर्तनः, कैलास इव महेश्वरलोककृतवसतिः, मेरुरिवसुवर्णप्रकृतिकमनीयो, यदुवंश इव दृष्टशूरपुरुषावतारः, सोमान्वय इव बुधप्रधानो, वेदपाठ इवानेकैः सवनैरुपेतः, पर्वते पर्वते स्थाणुभिः, पुरे पुरे पुराणपुरुषैः२, जले जले कमलोद्भवैः, पदे पदे देवकुलैः, वने वने वरुणैः, स्थाने स्थाने नन्दनोद्यानैः, अर्गलः स्वर्गस्य, तापीप्रायोऽप्यतापी३ जनस्य, विन्ध्याद्रिमुद्रितायां दिशि देशानामुत्तरोऽपि दक्षिणो देशः ।
___ अस्तीति । गद्यम् । वन्ध्याद्रिणा-वन्ध्याचलेन मुद्रिता-लाञ्छिता या सा तस्यां अर्थाद् दक्षिणस्यां दिशि देशानामुत्तर:-मुख्यो दक्षिणो देशोऽस्ति-वर्तते । अपिः-विरोधे, य उत्तरः- उत्तरदिग्देशवर्ती स कथं दक्षिण:-दक्षिणदेशवर्ती स्यात् ? उत्तरशब्दस्य दिग्देशार्थत्वात् । किम्भूतो देशः ? विस्तीर्णं-पृथु यन्मेदिनीमण्डलं-भूतलं तस्य मण्डनमिव-अलङ्कार इवाऽऽचरन् यः स तेन कृत्वा भूतलं शोभत इत्यर्थः । तथा नगाश्चपर्वताः नगराणि च-पुराणि च विहाराश्च-चैत्यानि आरामाश्च-कृत्रिमवनानि तैः रमणीयःरम्यः । नगरपुरयोश्च गुरुलघुत्वकृतो विशेषः । यद्वा, पुराणि-गृहाः, यदनेकार्थः-"पुरं शरीरे नगरे गृह-पाटलिपुत्रयोः" [२।४५०] इति । तथा सीतासहायः-जानकीसहितः सञ्चरित:प्रवृत्तो यो रघुपतिः-दाशरथिस्तस्य पादपद्मेन-चरणाम्भोजेन पवित्रं-शुचि अरण्यं यस्य स तथाविधः । तथा पुण्यतरा:-अतिशयेन पवित्रास्तरङ्गाः-वीचयो यस्याः, ईदृशी या गङ्गा च गोदावरी च तयोर्यद्वारि-जलं तेन वारित:-निवतितो दुरितमेव-पापमेव दावानलप्रसरो यस्मिन् स । जलेन हि दावाग्नेः शमनमुचितं । तत्सरितोः स्नानेन तद्वासिजनानां पापतापापगमात् । तथा बलिना-बलवता राज्ञा-भीमलक्षणेन जनितं परिसमन्तात् वर्तनंपरिपालनं यस्य सः । क इव? मन्दर इव-मेरुरिव । स च किम्भूतः ? बलिराजेन-दैत्येन जनितं परिवर्तन-भ्रमणं यस्य सः । पुनः किम्भूतः ? महान् ईश्वरः-समृद्धो यो लोकस्तेन कृता वसति:-निवासो यस्मिन् स, समृद्धलोकैर्भूत इत्यर्थः । क इव ? कैलाश इवरजताद्रिरिव । स च कीदृशः ? महेश्वर:-शिवस्तस्य लोकेन-परिजनेन कृता वसतिर्यस्मिन् स। तथा सुष्ठु वर्णा:-द्विजातयः प्रकृतयः-अमात्यास्तैः कमनीयः-सुन्दरः । क इव ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org