SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः वल्लीति । शार्दूलविक्रीडितवृत्तम् । एक:- असहायः कोऽपि - अविज्ञातजातिनामा चरणयोः पटच्चरं- जीर्णवस्त्रखण्डं बध्वा अध्वगः - पथिक आयातः - आययौ । किम्भूतोऽध्वगः ? वल्लीवल्केन - वीरुत्वचा पिनद्धं - वेष्टितं धूसरं वर्त्मरजसा ईषत्पाण्डुवर्णं शिरो येन सः, तथा स्कन्धे - अंशे दण्डकं:- यष्टिं दधत् धारयन्, तथा ग्रीवायां आलम्बित:रज्जुप्रयोगेण धृतो मृन्मणि:- पार्थिवमहाघटो येन सः । तथा कुटितवती' - शटिते कौपीनवाससी कक्षापटोपरिवस्त्रे यस्य सः । परिकुथदिति पाठे तु - कुथ:-वर्णकं बलःरथ्या निपतितजरत्पटखण्डैनिर्मितत्वात् स इवाचरतीति क्विपि लुप्ते " शतृङि" समासः । तथा कृश:-दुर्बलस्तथा श्रान्तवान् खिन्नः बहुमार्गातिलङ्घनात् । पुनः क्रमुकत्वचा - पूगद्रुमवल्कलेन विरचितां - निर्मितां भिक्षापु - भिक्षार्थ पत्रमयं भाजनं उद्वहन्-धारयन् । पुटशब्दस्त्रिलिङ्गः ॥५२॥ आगत्य च राजानमवलोक्य सविस्मयमेष चिन्तयाञ्चकार । ८२ आगत्य च राजानं-नलमवलोक्य - दृष्ट्वा सविस्मयं - साश्चर्यं एषः - अध्वगश्चिन्तयाञ्चकार-विचारितवान् । अब्ज श्रीसुभगं युगं नयनयोर्मोलिर्महोष्णीषवानूर्णारोमसखं मुखं च शशिनः पूर्णस्य धत्ते श्रियम् । पद्मं पाणितले गले च सदृशं शङ्खस्य रेखात्रयं, तेजोऽप्यस्य यथा तथा सजलधेः कोऽप्येष भर्ता भुवः ॥ ५३ ॥ - अब्जेति । शार्दूलविक्रीडितं वृत्तम् । अस्य नरस्य नयनयोर्युगं द्वन्द्वं अब्ज श्रीवत्कमलशोभावत् सुभगं चक्षुषां नेत्रयोः सुखकारीत्यर्थ: । तथा अस्य मौलि:- मस्तकं उष्णीषंउत्तमाङ्गे लक्षणविशेषः महदुष्णीषमस्मिन्नस्तीति महोष्णीषवान्, एतद्धि सामान्यस्य न स्यादिति । अस्य मुखं वक्त्रं पूर्णस्य- राकासम्बन्धिनः शशिनः - चन्द्रस्य श्रियं - शोभां धत्तेधारयति । किम्भूतम् ? ऊर्णा भ्रूमध्ये शुभरोमावर्त्तस्तस्यां यानि रोमाणि - लोमानि तेषां सखा ऊर्णारोमसखं-ऊर्णारोमसहितमित्यर्थः । " राजाहः सखिभ्यष्टच्" [पा० सू० ५|४|९१] तत्पुरुषे । तथा अस्य पाणितले पद्मं - कमललक्षणं । तथा अस्य गले च शङ्खस्य सदृशं - समं रेखात्रयं । यथा कम्बोः कण्ठे रेखात्रयं वीक्ष्यते तथाऽस्यापि । न केवलमेतान्येव नृपचिह्नानि किन्तु तेजोऽपि - शरीरधामापि तथाऽस्य वीक्ष्यते, यथा सजलधे:- ससमुद्रायाः १. कुपितवती अनू० । २. भिक्षार्थं अनू० । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy