SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः पतति भुवि भवनपारावतपतत्रिपत्रधूसरे धूलिपटले, १४सकम्पकपिकलापो १५ ल्ललनलुलिततरुणतरुमञ्जरी १६ पुञ्जनिकुञ्जादुद्द्द्विजिते १७ मञ्जु गुञ्जति वनान्तरमपरमुच्चलिते चञ्चलचञ्चरीकचक्रवाले, चक्रमक्रमेण च १८ सम्पन्ने सैन्यस्य श्रमावसरे तस्यैव सरलशाल १९ द्रुमस्याधस्तान्निषण्णे श्रमभाजि २० राजनि । ८० अकस्मात् कुतोऽपि । अनन्तरं राज्ञः समीपप्रदेश एव परिजने - अनुचरलोके परितः सर्वतः अनवरतंनिरन्तरं कराला:- :- रौद्रा ये कौलेयकाः- श्वानस्तेषां यत्कुलं - वृन्दं तस्य यत् कवलनं - भक्षणं तेन आकुलिता-व्याकुलीभूता ये कोलाश्च - सूकराः, करिणश्च-गजाः, कुरङ्गाश्च-मृगाः, कण्ठीरवकिशोराश्च-सिंहार्भकाः, पृषताश्च - मृगविशेषास्तेषां यत्पृष्ठं-पश्चाद्भागस्तस्मिन् प्रधाविते - अनुद्रुते सति । पुनः क्व सति ? भगवति गभस्तिमालिनि - सूर्ये मध्यस्थतांनभोमध्यभागं गतवति-प्राप्तवति सति । किम्भूते रवौ ? अन्तरान्तरा- मध्ये मध्ये प्रसारिता:विस्तारिताः करा:-किरणा येन स तस्मिन् । उत्प्रेक्ष्यते, व्याधान्- लुब्धकान्निवारयितुमिवनिषेद्धुमिव । किम्भूतान् व्याधान् ? जनित: - उत्पादितो विविधमृगवधूनां - अनेकप्रकारहरिणीनां वध एव - हननमेव व्याधिर्यैस्ते तथाविधान् । अन्योऽपि कारुणिको मध्यस्थतां गतः कांश्चित् कृपणान् घ्नतो निस्त्रिंशान् प्रसारितकरो निवारयत्येव । पुनः केषु सत्सु ? वनवीरुधां - वनलतानां पुष्पाण्येव लोचनानि तेभ्यः मध्याड्रोष्णेन - मध्यन्दिनातपेन विलीना:-क्षरिता ये मकरन्द - बिन्दवस्तेषु बाष्पेष्विव -अश्रुष्विव पतत्सु सत्सु । उत्प्रेक्ष्यते, सह-लताभिः सार्द्धं संवर्द्धिता: - वृद्धि प्राप्ता ये मृगास्तेषां यो विनाशः तस्माज्जातो यः शोकभरस्तस्मादिव । अन्योऽपि सहसंवर्धितजनविनाशं वीक्ष्य शोकभराद् रोदित्येव तथैता अपि । "उष्णा ग्रीष्मदक्षातपाऽहिमाः" इत्यनेकार्थः [२|१३४ ] । तथा च पुनः तरुखण्डात्-वृक्षवनाद् उड्डीना:- संडीना विविधा: - नानाप्रकारा ये विहङ्गास्तेषां यानि विरुतानि - कूजितानि तेषु श्रूयमाणेषु सत्सु । उत्प्रेक्ष्यते - वनदेवतानां वनविमर्दस्यकाननविनाशस्य उपालभ्भा:- आक्रोशवचनानि तेष्विव । अन्योऽप्यात्मीयवस्तुविनाशकारिणं उपालभत एव, तथैता: वनदेवता अपि उड्डीनपतत्त्रिकूजनव्याजेन वनोपद्रवकारिण उपालभन्त इव, यथा भवद्भिर्न सुन्दरं कृतमित्यादि । तथा च पुनः वनस्थलीषु विघटितावियोजिता अर्भका:- बाला यासां ईदृश्यो या मृगकुटुम्बिन्य: - हरिण्यस्तासां यानि करुणकूजितानि-दयोत्पादकरुतानि तेषां व्याजेन अन्यायमिव - अनीतिमिव पूत्कुर्वतीषु For Personal & Private Use Only Jain Education International www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy