SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः रोहणं सूक्तरत्नानां वृन्दं वन्दे विपश्चिताम् । यन्मध्यपतितो नीचः काचोऽप्युच्चैर्मणीयते ॥८॥ रोहणमिति । अहं विपश्चितां-विदुषां वृन्दं-समूहं वन्दे-नमस्यामि । किम्भूतम् ? शोभनानि-निर्दोषसगुणसरससालङ्काराणि उक्तानि-कथितानि सूक्तानि-सुभाषितानि तान्येव रत्नानि तेषां सूक्तरत्नानां रोहन्त्यस्मिन्निति रोहणं-उत्पतिस्थानम् । तन्नमस्करणे हेतुमाह-यस्य विपश्चिद्वन्दस्य मध्ये पतित:-गतो यन्मध्यपतितः सन् काचोबन्धः-प्रकरणात् काव्यबन्धो नीचोऽपि-अतादृशोऽपि उच्चैः-उत्कृष्टो मणिरिवाचरति स्वप्रबन्धकर्तारं भूषयन्मणीयते । विपश्चितो हि कविपरिश्रमं जानन्तोऽतादृशमपि प्रबन्धं व्याख्यानप्रागल्भ्यादनुगृह्योत्कर्ष लम्भयन्ति । कचबन्धे-कच्यन्ते बध्यन्ते "अनेनार्था अस्मिन्नि"ति वा घत्रि [घनि च भावकरणयोः, पा०सू० ६।४।२७], काचः-प्रबन्धः । अथ च रोहणं-माणिक्यशैलं स्तौमि, यस्य मध्ये पतितः काचः क्षारमृद्विकारो नीचोऽपि-निकृष्टोऽपि रत्नसांनिध्यान्मणीयतेरत्नायते ॥८॥ आस्तां सज्जनदुर्जनयोः शीलेन साम्यं यावन्मूर्त्यापि महदन्तरमिति निरूपयन्नाह अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च । क्व सा वै रात्रिजातस्य तमसो दुर्जनस्य च ॥९॥ अत्रीति । अत्रिमुनिनेत्रजन्मत्वादविजातस्य शशिनः-शशाङ्कस्य, च-पुनः, न त्रिभिर्जातस्येत्यत्रिजातस्य अर्थात्कुलीनस्य सज्जनस्य सतो या मूर्तिः-शरीरं अवैरा जगन्मैत्री परावर्तते, सा मूर्तिः वै-स्फुटं रात्रिजातस्य-निशासम्भूतस्य तमसः-अन्धकारस्य दुर्जनस्य च त्रिजातस्य-अकुलीनस्य क्व वर्तते ? न क्वापीति । यतो दुर्जनस्य मूत्तिर्वैरावैरहेतुः । अत्र .श्लेषोक्त्या तलोपः । अथवा शशितमसोः सज्जनदुर्जनयोश्च सहजं वैरमिति, वैराद्धेतोर्दुर्जनस्य क्व सा मूर्तिरिति । अथवा दुर्जनस्य मूर्तिः क्व अवैरा ? अपितु सर्वत्राऽपि सवैरेत्यर्थः । "मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि" इत्यनेकार्थः [२।१९१] ॥९॥ निश्चितं ससुरः कोऽपि न कुलीनः समेऽमतिः । सर्वथासुरसम्बद्धं काव्यं यो नाभिनन्दति ॥१०॥ निश्चितमिति । सुष्ठ रसाः- शृङ्गारादयो यत्र तत् ईदृग्विधं बद्धं-रचितं काव्यंकाव्यग्रन्थं यो नाभिनन्दति-नाभिप्रैति न स्तौतीत्यर्थः । स निश्चितं-ध्रुवं सह सुरया वर्तत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy