________________
* प्रस्तुतग्रन्थविषयसंलग्ना
विशेषसङ्ग्रहो यथा सर्वे जीवाः परस्परमविरोधिनः । सङ्ग्रहोऽपि द्वेधा । व्यवहारो द्विविधः । सामान्यसङ्ग्रहभेदकव्यवहारो यथा - द्रव्याणि जीवाजीवाः । विशेषसङ्ग्रहभेदकव्यवहारो, यथा जीवाः संसारिणो मुक्ताश्च । व्यवहारोऽपि द्वेधा ।। ऋजुसूत्रोऽपि द्विविधः । सूक्ष्मऋजुसूत्रो यथा-एकसमयावस्थायी पर्यायः । स्थूलऋजुसूत्रो यथा-मनुष्यादिपर्यायाः तदायुःप्रमाणं कालं तिष्ठति । ऋजुसूत्रोऽपि द्वेधा ।। शब्द-समभिरूद्वैवम्भूताः प्रत्येकमेकैका नयाः । शब्दनयो यथा-दारा-भार्या कलत्रं । जलमापः । समभिरुढनयो यथा - गोः पशवः । एवम्भूतनयो यथा-इन्दतीति ईन्द्रः । उक्ता अष्टाविंशतिर्नयभेदाः ।। उपनयभेदा उच्यन्ते । शुद्धसद्भूतव्यवहारः । शुद्धगुणाः शुद्धगुणिनः, शुद्धपर्यायाः शुद्धपर्यायिणः भेदकथनम् ।
अशुद्धसद्भूतव्यवहारः । अशुद्धगुणाः अशुद्धगुणिनः, अशुद्धपर्यायाः अशुद्धपर्यायिणः भेदकथनम् इति । उपचरितानुपरितभेदेनासद्भूतोऽपि द्वेधा ।
स्वजात्यसद्भूतव्यवहारो यथा परमाणुः बहुप्रदेशी इति कथनम् इत्यादि । विजात्यसद्भूतव्यवहारो, यथा मूर्तं मतिज्ञानं यतो मूर्तद्रव्येण जनितम् ।। स्वजातिविजात्यसद्भूतव्यवहारो, यथा ज्ञेये जीवे अजीवे ज्ञानमिति कथनं ज्ञानस्य विषयात् । असद्भूतव्यवहारस्त्रेधा । स्वजात्युपचरितासद्भूतव्यवहारो यथा पुत्रादि अहं मम वा । विजात्युपचरितासद्भूतव्यवहारो यथा वस्त्राभरणहेमरत्नादि मम । स्वजातिविजात्युपचरितासद्भूतव्यवहारो यथा देशराज्यदुर्गादि मम । उपचरितासद्भूतव्यवहारस्त्रेधा ।
सहभुवो गुणाः । क्रमवर्तिनः पर्यायाः । गुण्यते पृथक्क्रियते द्रव्यं द्रव्याद्यैस्ते गुणाः । 'अस्ति द्रव्ये' तस्य भावः अस्तित्वम् । सद्रूपत्वं वस्तुनो भावो वस्तुत्वम् । सामान्यविशेषात्मकं वस्तु । द्रव्यस्वभावो द्रव्यत्वम् । निजनिजप्रदेशसमूहैरखण्डवृत्त्या स्वभावपर्यायान् द्रवति द्रोष्यति अदुद्रुवदिति द्रव्यम् । 'सद्' द्रव्यलक्षणं-सीदति स्वकीयान् गुणपर्यायान् व्याप्नोतीति सत् । उत्पादव्ययध्रौव्ययुक्तं सत् । प्रमेयस्य भावः प्रमेयत्वम् । प्रमाणेन स्वपरस्वरूपं परिच्छेद्यं प्रमेयम् । अगुरुलघोर्भावोऽगुरुलघुत्वम् । सूक्ष्मा अवाग्गोचराः प्रतिक्षणं वर्तमाना आगमप्रामाण्यादभ्युपगम्या अगुरुलघोर्गुणाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org