________________
॥ नयचक्रालापपद्धतिः ॥
पंडित श्रीदेवसेनगणी
अथ नयचक्रं लिख्यते । गुणानां विस्तरं वक्ष्ये स्वभावानां तथैव च ।
पर्यायाणां विशेषेण नत्वा वीरजिनेश्वरम् । आलापपद्धतिर्वचनरचनानुक्रमेण नयचक्रस्योपरि उच्यते । सा च किमर्थं ? द्रव्यलक्षणसिद्ध्यर्थं स्वभावसिद्ध्यर्थं च । द्रव्यानि कानि ? जीवपुद्गलधर्माधर्माकाशकालद्रव्याणि । 'सत्' द्रव्यलक्षणं । उत्पादव्ययध्रौव्ययुक्तं सत् ।
॥ इति द्रव्याधिकारः ॥
लक्षणानि कानि ? अस्तित्वं, वस्तुत्वं, द्रव्यत्वं, प्रमेयत्वं, अगुरुलघुत्वं, प्रदेशत्वं, चेतनत्वं, अचेतनत्वं, मूर्तत्वं, अमूर्तत्वम् (इति) द्रव्याणां दश सामान्यगुणाः । प्रत्येकं अष्टौ अष्टौ ।
सर्वेषां ज्ञान-दर्शन-सुख-वीर्य-स्पर्श-रस-गन्ध-वर्णं, गतिहेतुत्वं, स्थितिहेतुत्वं, अवगाहनहेतुत्वं, वर्तनाहेतुत्वं, चेतनत्वं, अचेतनत्वं, मूर्तत्वं, अमूर्तत्वं द्रव्याणां षोडशविशेषगुणा । प्रत्येकं जीवपुद्गलयोः षड् इतरेषां प्रत्येकं त्रयो गुणाः । अन्तस्थाश्चत्वारो गुणाः । स्वजात्यपेक्षया सामान्यगुणाः । विजातीयापेक्षया विशेषगुणाः । ।। इति गुणाधिकारः ॥
गुणविकाराः पर्यायाः । ते द्वेधा-स्वभाव-विभावपर्यायभेदात् । अगुरुलघुपर्यायाः स्वभावपर्यायाः । ते द्वादशधा षड्वृद्धि-हानिरूपाः । अनन्तभागवृद्धि:, असङ्ख्यातभागवृद्धिः, सङ्ख्यातभागवृद्धिः, सङ्ख्यातगुणवृद्धिः, असङ्ख्यातगुणवृद्धिः, अनन्तगुणवृद्धिः । इति षड्वृद्धिः । तथाअनन्तभागहानिः, असङ्ख्यातभागहानिः, सङ्ख्यातभागहानिः, सङ्ख्यातगुणहानिः, असङ्ख्यातगुणहानिः, अनन्तगुणहानिः ॥ इति षड्वृद्धिहानिगुणनिरूपणम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org