________________
aleft allBAdotोनय अधूरी... (સ્થાની પ્રશંસા 29 પૂજય મોંપાદયાથજી મહારાજના હeગોળારો. )
गलन्नयकृतभ्रान्तिर्यः स्याद्विश्रान्तिसम्मुखः । स्याद्वादविशदालोकः, स एवाध्यात्मभाजनम् ॥५।।
- अध्यात्मोपनिषद् ।
कुतऊर्ध्वस्तानामतिविषनैरात्म्यविषयैस्तवैव स्याद्वादस्त्रिजगदगदङ्कारकरुणा । इतो ये नैरुज्यं सपदि न गताः कर्कशरुजस्तदुद्धारं कर्तुं प्रभवति न धन्वन्तरिरिपि ।।१०५।।
- न्यायखंडखाद्यमूलम् ।
महावाक्यार्थजं सूक्ष्मयुक्त्या स्याद्वादसंगतम् । चिन्तामयं विसर्पि स्यात्तैलबिन्दुरिवाम्भसि ॥१२॥
- द्वात्रिंशद्वात्रिंशिकामूलम् ।
स्याद्दोषापगमस्तमांसि जगति क्षीयन्त एव क्षणादध्वानो विशदीभवन्ति निबिडा निद्रा दृशोर्गच्छति । यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्भकल्याणिनी, प्रौढत्वं नयगीर्दधाति स रवि नागमो नन्दतात् ।।४।।
- अध्यात्मसारः।
सदसदविसेसणाओ विभज्जवायं विणा ण सम्मत्तं जं पुण आणारूइणो तं निउण बिंति दव्वेणं ।।१००।
-उपदेशरहस्यम्।
Join Education Interational
For Personal & Private Use Only
www.jainelibrary.org