SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ॥सूरिपुरन्दरश्रीहरिभद्रसूरिस्तुतयः ॥ मतिर्बोद्धाः ! शुद्धा प्रभवति कथं साऽद्यभवतां, विचारश्चार्वाकाः ! प्रचरति कथं चारुचतुरः । कुतर्कस्तर्कज्ञाः ! किमपि स कथं तर्कयति वः, सति स्याद्वादे श्रीप्रकटहरिभद्रोक्तवचने ॥१॥ ग्रावग्रन्थिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्टप्रेखद्दर्पिष्ठदुष्टप्रमदवशभुजास्फालनोत्तालबालाः । यद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं, तद् गम्भीरं प्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः ॥२॥ यथास्थितार्हन्मतवस्तुवादिने निराकृताशेषविपक्षवादिने । विदग्धमध्यस्थनृमूढतारये नमोऽस्तु तस्मै हरिभद्रसूरये ॥३॥ - श्रीयशोदेवमुनिकृता प्रशंसा श्रीहरिभद्रसूरीन्द्रः वारीन्द्र इव विश्रुतः । परतीर्थ्यांस्त्रासयित्वा मृगानिव गुरुर्जयी ॥ - कश्चित् पूर्वमहर्षिः हारिभद्रं वचः क्वेदमतिगम्भीरपेशलम् । क्व चाहं शास्त्रलेशज्ञस्तादृक्तन्त्राऽविशारदः ॥१॥ येषां गिरं समुपजीव्य सुसिद्धविद्यामस्मिन् सुखेन गहनेऽपि पथि प्रवृत्तः । ते सूरयो मयि भवन्तु कृतप्रसादाः श्रीसिद्धसेनहरिभद्रमुखाः सुखाय ॥२॥ - श्रीयशोविजयोपध्यायकृता स्याद्वादकल्पलता सिरिपायलित्तकइ-बप्पभट्टि-हरिभद्दसूरिपमुहाणं । किं भणिमो उणज्ज वि न गुणेहिं समो जगे सुकई॥ - श्रीविजयसिंहसूरिकृता भुवनसुन्दरीकथा भई सिरिहरिभद्दस्स सूरिणो जस्स भुवणरंगम्मि। वाणीविसट्टरसभावमंथरा नच्चए सुइरं ॥ - श्रीलक्ष्मिगणिकृतं सुपार्श्वनाथचरित्रम् For Personal & Private Use Only www.jainelibrary.org
SR No.004057
Book TitleAnekantvada pravesh
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy