________________
११. श्रीहंसचन्द्रशिष्यविरचितम् मङ्गलकलशकथानकम् ॥
प्रणम्य स्वगुरुं भक्त्या, हन्सेन्दुवाचकोत्तमम् । क्रियते मङ्गलसाधोश्च, चरित्रं मङ्गलप्रदम् ॥१॥
इहैव जम्बूद्वीपे भरतक्षेत्रे उज्जयिन्यां महापुर्यां वैरिसिंहो राजा राज्यं करोति स्म । तस्य राज्ञः सोमचन्द्रा भार्या । तस्यां नगर्यां धनदत्तः श्रेष्ठी अभूत् धर्मात्मा सत्यवान् शीलदयान्वितः गुरौ देवे च भक्तिमान् । तस्य भार्या सत्यभामा शीलालङ्कारविभूषिता भर्त्तरि प्रेमपरा परं तु सन्तानविवर्जिता । अन्यदा सा म्लानमुखं चिन्तातुरं दृष्ट्वा श्रेष्ठिनं आह- 'हे नाथ ! किं ते दुःखं येन चिन्तातुरो दृश्यते ?' सोऽवदत् - ' पुत्रस्य चिन्ता नाऽन्या ।' यतः-अपुत्रस्य गतिर्नास्ति ।
सर्वरी दीपकश्चन्द्रः, प्रभाते रविर्दीपकः ।
त्रैलोक्यदीपको धर्मः, सत्पुत्रः कुलदीपकः ॥१॥
श्रेष्ठीनी ऊचे - 'अनया चिन्तयाऽलं धर्मे उद्यमो विधेयः, धर्मात् सर्वं
प्राप्यते ।
यतः-धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः ।
स एव सेवनीयो हि, विशेषेण सुखैषिणा ॥१॥
[ अजितप्रभसूरिकृते शां० चरित्रे - १-७१] देवे च गुरौ भक्ति कुरु, सुपात्रेभ्यो दानं देहि, पर्वं (पुण्यं) कुर्वतः पुत्रो भावी ।' हृष्टः सन् श्रेष्ठी उवाच - 'प्रिये ! साधु कथितम् ।' ततश्च श्रेष्ठी धर्मपरायणो बभूव । प्रभातसमये स्वयमारामे गत्वा पुष्पाणि आनीय
Jain Education International
९८१
For Personal & Private Use Only
www.jainelibrary.org