________________
२४६ • मङ्गलकलशकथानकम्
मुनिरूचे सोमचन्द्रः, श्रीमती दयिताऽभवत् । जिनदत्तोऽस्ति तन्मित्रं, द्रव्याऽर्थं सोऽन्यदाऽव्रजत् ॥१५१॥ अर्पयामास दीनारायुतं, चावक् ततस्त्विदम् । मन्मृतौ सुकृते देयं, मृतौ तेन तथा कृतम् ॥१५२॥ अन्यदा श्रीमतीमेत्य, सखी भद्राऽभिधाऽवदत् । सख्यहं निजकान्तस्य, कस्माद् द्वेष्या बभूव हा ! ॥१५३॥ श्रीमत्यूचे खलु द्वेष्या, तदा दुश्चारिणी ध्रुवम् । तेन वाक्येन दूनां तां, प्रेष्य भूयोऽवदत् ततः ॥ १५४॥ हले! हास्यान्मयोक्ताऽसि, क्षम्यतां दुर्वचो मम । ततः प्रशान्तचित्ता सा, सुखं तस्थौ गृहस्थिता ॥ १५५ ॥ अन्यदा मदनावेश्या विटपञ्चकसंयुता । अवदत् श्रीमत कोऽपि न शीलाच्चालने क्षमः || १५६ || कामाङ्करस्ततः प्रोचे, तन्मध्याद् गर्वपर्वतः । तदा कामाङ्कुरो नूनं भुञ्जेऽहं श्रीमर्ती यदि ॥ १५७ ॥ इत्युक्त्वा स गतो गेहे, श्रीमत्याश्च तथा स्थितः । यदाऽवदत् सरागं स, तदा सत्या निराकृतः ॥ १५८॥ भीतं त्रस्तं भ्रष्टमानं, खिन्ना विकलाननम् । वीक्ष्य वेश्या तमायातं, हसति स्म मुहुर्मुहुः ॥१५९॥ ततः प्रोवाच मदना, यूयं छिन्नाऽत्र तिष्ठत । सोमचन्द्रपरीक्षां च युष्माकं दर्शयाम्यहम् ॥ १६०॥ कुलस्त्रीवेषमाधाय, सोमचन्द्रं पथि स्थितम् । यात्वा बभाषे भद्र ! त्वामाकारयति श्रीमती || १६१ ॥
Stag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org