SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः गुरु-परम्परा प्रस्तुत पुस्तक के रचयिता कवि श्रीवल्लभ वाचनाचार्य उपाध्याय श्री ज्ञानविमल गणि के शिष्य थे। आपकी गुरु-परम्परा बहुत ही उच्चकोटि के विद्वानों तथा गीतार्थों से अलंकृत रही है, जैसा कि आपने अपनी टीका ग्रन्थों की प्रशस्तियों में दिखलाया है: शुशुभिरे जिनराजमुनीश्वराः, खरतराहगणाभ्रदिवाकराः । तदनु भूरिगुणा जयसागरा, जगति रेजुरनुत्तमपाठकाः ॥ ७॥ तेषां शिष्या मुख्या दक्षा आसन्नदूष्यगुणलक्षाः । श्रीरत्नचन्द्रनामोपाध्यायाः साधुपरिधायाः ॥ ८॥ तत्पट्टस्फुटपद्मप्रकाशनोदारसूरसङ्काशाः । श्रीभक्तिलाभनामोपाध्यायाः शास्त्रकर्तारः॥९॥ धीमन्तोऽन्तिषदस्तेषां कालकौशलपेशलाः । समजायन्त राजन्तौ ग्रन्थार्थाम्भोधिपारगाः ॥१०॥ चारित्रसागरपाठक-भावाकर-सद्गणीश्वरा दक्षाः। श्रीचारित्रचन्द्रवाचकधुर्याः स्मार्या मुनीशानाम् ॥ ११ ॥ तेषां क्रमशः पट्टव्योमाङ्गणशीतरश्मिसङ्काशाः । श्रीभानुमेरुवाचक-जीवकलश-कनककलशाह्वाः ॥ १२॥ तत्र चारित्रसाराख्या उपाध्यायाः महाशयाः । बभूवुः श्रुतपाथोधिपारीणाः साधुवृत्तयः ॥ १३ ॥ तत्पट्टे समभूवन् विलसत्संवेगरङ्गसंल्लीनाः । वाचकपदप्रधानाः श्रीमन्तो भानुमेर्वाह्वाः ॥ १४॥ सौभाग्यौघं निविडजडतां व्यञ्जयत्यन्तयन्ती, यद्वक्त्राम्भोरुहसुवसतिं प्राप्य गौालसीति। गम्भीरां ये बृहदुदधयः स्फूर्तिमन्तो महान्तो, गाम्भीर्यादिप्रवितसुगुणैर्वर्ण्यलावण्यपुण्याः ॥१५॥ जयन्ति मायां समयकथित ज्ञानविमलाश्चिरं चञ्चत्पाठकपदवरा ज्ञानविमलाः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy