________________
विभाग- १, षड्दर्शनसूत्रसंग्रहः मीमांसादर्शनम्
जैमिनीयमीमांसासूत्रपाठ ( २ ) ॥ मीमांसादर्शनम् ॥
अथ प्रथमोऽध्यायः
प्रथमः पादः
१. अथातो धर्मजिज्ञासा । २. चोदनालक्षणोऽर्थो धर्मः ।
३. तस्य निमित्तपरीष्टिः ।
४. सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् ।
५. औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धतस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं बादरायणस्यानपेक्षत्वात् ।
६. कर्मैके तत्र दर्शनात् ।
७. अस्थानात् । ८. करोतिशब्दात् ।
९. सत्त्वान्तरे च यौगपद्यात् ।
१०. प्रकृतिविकृत्योश्च । ११. वृद्धिश्च कर्तृभूम्नास्य । १२. समं तु तत्र दर्शनम् ।
१३. सतः परमदर्शनं विषयानागमात् ।
१४. प्रयोगस्य परम् ।
१५. आदित्यवद्यौगपद्यम् ।
१६. वर्णान्तरमविकारः ।
१७. नादवृद्धिपरा ।
१८. नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् ।
१९. सर्वत्र यौगपद्यात् ।
३९
१०. संख्याभावात् ।
११. अनपेक्षत्वात् ।
१२. प्रख्याभावाच्च योगस्य ।
१३. लिङ्गदर्शनाच्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org