________________
विभाग- २, षड्दर्शनसमुच्चयावचूर्णि
येन कारणेन यत् उत्पादव्ययध्रौव्यात्मकं तत् सत् सत्त्वरूपमुच्यते तेन कारणेन अनन्तधर्मकं वस्तु प्रमाणगोचरः । सर्ववस्तुषु उत्पत्तिविपत्तिसत्तासद्भावात् उत्पत्त्यादित्रययुक्तस्यैवानन्तधर्मता तेनैव पुनरनन्तधर्मात्मकत्वमुक्तं न पौनरुक्त्यम् ।।५७।।
२९५
जिनदर्शनस्य संक्षेपः प्रोक्तः विस्तरस्य अगाधत्वेन वक्तुमगोचरत्वात् । अनयो निदूषणः सर्वज्ञमूलत्वात् । [ तु पुनः ] समुच्चये, आदौ प्रान्ते च परस्परविरुद्धार्थता यत्र नः आस्तां केवलिप्रणीते छद्मस्थप्रणीतेऽप्यङ्गादिके न दोषलवः परेषां शास्त्राणि परस्परविरोधाघ्रात [ तत्वे ] न व्याघ्रा [घ] इव दुःशक्या कर्णे धर्तुम् ।।५८ ।।
वैशेषिकाणां काणादानां नैयायिकैः समं शिवदेवविषयो भेदो नास्ति तत्त्वेषु शासनरहस्येषु तु भेदो निर्दिश्यते ।। ५९ ।।
तन्मते वैशेषिकमते तु निश्चितं च तत्त्वषट्कम्, नामानि सुगमार्थानि ।। ६० ।। नवविधं द्रव्यं पञ्चविंशतिगुणाश्च निगदसिद्धान्येव संस्कारस्य वेगभावनास्थित [ति ] स्थापकभेदात् त्रिविधोऽपि [त्रैविध्येऽपि ] संस्कारत्वजात्यपेक्षया एकत्वम् । शौर्यौदार्यादीनां गुणानामेष्वेवान्तर्भावात् नाधिक्यम् ।।६१ - ६३ ।। पञ्चापि कर्मभेदाः स्पष्टा एव । गमनग्रहणाद् भ्रमणरेचनस्यन्दनाद्यविरोधः । तु पुनः सामान्ये द्वे परसामान्यमपरसामान्यं चेत्यर्थः ।।६४।।
एतद्व्यक्ति [क्तं ] विशेषव्यक्तिं चाह तत्र परं सत्ता भावो महासामान्यम्, [ अपरसामान्यं ] च द्रव्यत्वादि एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते । तथाहि द्रव्यत्वं नव॑सु द्रव्येषु वर्तमानत्वात् सामान्यं गुणकर्मव्यावृत्तत्वाद् विशेषः । एवं द्रव्यत्वापेक्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् । चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो निवृत्तेश्च विशेषः । गुणत्वापेक्षया नील [रूप] त्वादिकम् । एवं कर्मादीन्यपि । नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तिहेतवः । ते द्रव्यादिवैलक्षण्यात् पदार्थान्तराः [रम् ] अन्त्ये[न्ते] षु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद् विशेषाः । गवादिषु अश्वादिभ्यः तुल्याकृतिक्रियावयवोपचयसंयोगविलक्षणोऽयं प्रत्ययव्यावृत्ते [ति ] विशेषः । । ६५ ।।
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International