________________
२८४
" श्रोतव्यः सौगतो धर्मः कर्त्तव्यः पुनरार्हतः । वैदिको व्यवहर्तव्य ध्यातव्यः परमः शिवः ।। "
विभाग- २, षड्दर्शन समुच्चय, लघुवृत्तिः
इत्यादि विमृश्य श्रेयस्करं रहस्यमभ्युपगन्तव्यं कुशलमतिभिरिति पर्यन्त श्लोकार्थः । तत्समाप्ता चेयं षड्दर्शनसमुच्चयसूत्रटीका । खेलतो मूलराजहंसौ यावद्विश्वसरस्तटे । तावद्बुधैर्वाच्यमानं पुस्तकं नन्दतादिति ।। सप्ताशीतिः श्लोकसूत्रं टीकामानं विनिश्चितम् । सहस्रमेकं द्विशती द्वापञ्चाशदनुष्टुपाम् ।।
।।८७ ।।
इति श्रीहरिभद्रसूरिकृतषड्दर्शनसमुच्चये श्री सोमतिलकसूरिकृता लघुवृत्तिः समाप्ता ।
Jain Education International
"
For Personal & Private Use Only
www.jainelibrary.org