________________
विभाग-२, षड्दर्शन समुञ्चय, लघुवृत्तिः
२७९
नैयायिकसांख्यजैनवैशेषिकजैमिनीयानां संक्षेपकीर्तनं कृतं, संक्षेपेण वक्तव्यमभिहितमित्यर्थः ।।७७।। विशेषान्तरमाह - (मू. श्लो.) नैयायिकमतादन्ये भेदं वैशेषिकैः सह ।
न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ।।७८।। अन्ये आचार्या नैयायिकमताद्वैशेषिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया आस्तिकवादिनः पञ्चैव ।।७८ ।। दर्शनानां षटसंख्या जगति प्रसिद्धा सा कथं फलवतीत्याह - (मू. श्लो.) षष्ठदर्शनसंख्या तु पूर्यते तन्मते किल ।
... लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ।।७९।। ये नैयायिकवैशेषिकयोरेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवाचक्षते, तन्मते षष्ठदर्शनसंख्या लोकायतमतक्षेपात्पूर्यते । तु पुनरर्थे, किलेति परमाप्ताम्नाये, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते तत्स्वरूपमुच्यत इति ।।७९।।
[लोकायतमत] तदेवाह - (मू. श्लो.) लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः ।
धर्माधर्मो न विद्यते न फलं पुण्यपापयोः ।।८।। लोकायता नास्तिका एवममुना प्रकारेण वदन्ति कथमित्याह - देवः - सर्वज्ञादिर्नास्ति, निर्वृतिर्मोक्षो नास्ति, अन्यञ्च न विद्यते, कौ धर्माधर्मी, धर्मश्चाधर्मश्चेति द्वन्द्वः । पुण्यपापे सर्वथा न स्त इत्यर्थः । पुण्यपापयोधर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे कौतस्त्यं तत्फलमित्यादि ।।८०।।
तच्छास्त्रोक्तमेव सोल्लुण्ठं दर्शयन्नाह - तथा च तन्मतम् । (मू. श्लो.) एतावानेव लोकोऽयं यावानिन्द्रियगोचरः ।
। भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः ।।८१।। तथा चेत्युपदर्शने । तन्मतं प्रस्तावान्नास्तिकमतम् । कथमित्याह -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org