SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७४ विभाग-२, षड्दर्शन समुच्चय, लघुवृत्तिः द्वैतसाधकहेतूपन्यासाः प्रोच्छलन्तश्चतुर-चमत्कारं जनयन्तः क्व पर्यवस्यन्ति तास्तु युक्तय: सूत्रकृतानुल्लिङ्गितत्वाद् ग्रन्थविस्तरभयाञ्च नेह प्रपञ्च्यन्ते, अभियुक्तैस्तु खण्डनमहातर्कादवसेयाः । पूर्वमीमांसावादिनश्च द्विधा प्राभाकरा भाटाश्च क्रमेण पञ्चषट्प्रमाणप्ररूपकाः । अत्र तु सामान्येन सूत्रकृत् पूर्वमीमांसावादिन एव जैमिनीयानुद्दिष्टवान् । ते पुनजैमिनीयाः, प्राहुः कथयन्ति, कथमित्याह - सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्य वचो वचनं मानं प्रमाणं भवेत् । सर्वज्ञादिविशेषेण इति । सर्वज्ञादिना गुणेन विशेष्य इति । आदिशब्दाद्विभुत्वनित्यत्वचिदात्मकत्वादिगुणविशिष्टः कोऽपि देवो नास्ति यद्वचनं प्रमाणतामनुभवेत्, मानुषतनुत्वाविशेषेण विप्रलम्भकत्वाद् दुष्टपुरुषवत् । सर्वज्ञादिगुणविशिष्टपुरुषाद्यभाव इत्यर्थः । अथ किङ्करायमाणसुरासुरसेव्यमानताद्युपलक्षणेन त्रैलोक्यसाम्राज्यसूचकच्छत्रचामरादिविभूत्यन्यथानुपपत्तेश्चास्ति कश्चित् पुरुषविशेषः सर्वज्ञ इति चेत् त्वयूथ्योक्तवचनप्रपञ्चोपन्यासैरेव निरस्तत्वात् । यथा - "देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।।" [आप्तमी. १] अथ यथानादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रियया शोध्यमानस्य निर्मलत्वमेवमात्मनोऽपि निरन्तरज्ञानाद्यभ्यासेन विगतमलत्वात्(त्वं) किं न संभवेदिति मतिः, तदपि न, न ह्यभ्यासमात्रसाम्ये शुद्धरपि तदेव तादवस्थ्यम् । यदुक्तम् - "गरुत्मच्छाखामृगयोर्लङ्घनाभ्याससंभवे । समानेऽपि समानत्वं लङ्घनस्य न विद्यते ।।" [ ] न च सुतरां चरणशक्तिमानपि पङ्गुरखर्वपर्वतशिखरमधिरोढुं क्षमः । उक्तं च - "दशहस्तान्तरं व्योम्नो यो नामोत्प्लत्य गच्छति । न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि ।।" अथ मा भवतु मानुषस्य सर्वज्ञत्वं ब्रह्मविष्णुमहेश्वरादीनामस्तु । ते हि देवाः, संभवत्यपि तेष्वतिशायिसंपत् । यदाह कुमारिल: .. www.jainelibrary.org Jain Education International www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy