________________
विभाग- २, षड्दर्शन समुच्चय, लघुवृत्तिः
नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिशेत् । विनिर्दिशेत् कथयेद् आचार्य इति ज्ञेयम् । कथमित्याह अन्त्यो विशेषो नित्यद्रव्यवृत्तिरिति । तथाहि नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तिहेतवस्ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम् । तथा च प्रशस्तकारः, अन्तेषु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद्विशेषा: विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथा अस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिक्रियावयवोपचयापचय अवयवविशेषसंयोगनिमित्ताप्रत्ययव्यावृत्तिर्दृष्टा - 'गौ: शुक्लः पीतः शीघ्रगतिः ककुद्मान् महाघण्ट' इति, तथास्मद्विशिष्टां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममन:सु चान्यनिमित्ताऽसम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषा ( प्रशस्तपाद - पृ- १६८) इति । अमी च विशेषा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपा व्यावृत्तेरेव हेतुत्वादित्यर्थः ।
२७२
समवायपदार्थव्यक्तिलक्षणमाह -
(मू. श्लो.) य इहायुतसिद्धानामाधाराधेयभूतभावानाम् ।
-
संबन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः ।। ६६ ।।
इह प्रस्तुतमते, अयुतसिद्धानामाधाराधेयभूतभावानामिह प्रत्ययहेतुर्यः संबन्धः स समवायः । यथेह तन्तुषु पट इत्यादि प्रत्ययस्यासाधारणं कारणं समवायः । यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्यं तन्त्वाद्याधारे संबध्यते, यथा छिदिः क्रिया छेद्येनेति । अयुतसिद्धानामिति । परस्परपरिहारेण पृथगाश्रयानाश्रितानामाश्रयाश्रयिभाव इति । परस्परवैधर्म्यं तु विविक्तैरभ्यूह्यम् । षण्णामपि पदार्थानां स्वरूपकथनमात्राधिकृतत्वाद् ग्रन्थस्य नेह प्रतन्यत इति ।
प्रमाणव्यक्तिमाह
( मू. श्लो.) प्रमाणं च द्विधामीषां प्रत्यक्षं लैङ्गिकं तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ।। ६७।।
यद्यप्यौलूक्यशासने व्योमशिवाचार्योक्तानि त्रीणि प्रमाणानि, तथापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org