SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ विभाग- २, षड्दर्शन समुझय, लघुवृत्तिः शिवदेवतासाम्येऽपि, तत्त्वादिविशेषविशिष्टत्वाद् वैशेषिकास्तेषां वैशेषिकाणां काणादानां नैयायिकैराक्षपादैः समं सार्द्धं देवताविषये शिवदेवताभ्युपगमे भेदो विशेषो नास्ति, तत्त्वेषु शासनरहस्येषु भेदो विद्यते । तुशब्दोऽध्याहार्यः । असौ विशेषो नैयायिकेभ्यः पृथग्भावो निदर्श्यते प्रकाश्यत इत्यर्थः ।। ५९ ।। २७० तान्येव तत्त्वान्याह ( मू. श्लो.) द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते । । ६० । तन्मते वैशेषिकमते हि निश्चयेन तत्त्वषट्कं ज्ञेयमिति संबन्धः । कथमित्याह • द्रव्यं गुण इत्यादि । आदिमतत्त्वं द्रव्यं नाम, भेदबाहुल्येऽपि सामान्यादेकम् । द्वितीयतत्त्वं गुणो नाम तथेति भेदान्तरसूचने । तृतीयं तत्त्वं कर्मसंज्ञम् । चतुर्थकं च तत्त्वं सामान्यम् । चतुर्थमेव चतुर्थकं स्वार्थे कः प्रत्ययः । चः समुच्चये । अन्यच्च विशेषसमवायौ । विशेषश्च समवायश्चेति द्वन्द्वः । इति तद्दर्शने तत्त्वानि षड् ज्ञेयानि ।। ६० ।। भेदानाह ( मू. श्लो.) तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च, गुणाः पुनश्चतुर्विंशतिधा । । ६१ ।। स्पर्शरसरूपगन्धाः शब्दः संख्या विभागसंयोगी । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ।। ६२ ।। बुद्धिः सुखदुःखेच्छा धर्माधर्मौ प्रयत्नसंस्कारौ । द्वेषः स्नेहगुरत्वे द्रवत्ववेगौ गुणा एते ।। ६३ ।। नवद्रव्याणि चतुर्विंशतिगुणाश्च निगदसिद्धान्येव । संस्कारस्य वेगभावनास्थितिस्थापकभेदात त्रिविधत्वेऽपि संस्कारत्वजात्यपेक्षयैकत्वम । शौय्यदार्यादीनां च गुणानामेष्वेव चतुर्विंशतिगुणेष्वन्तर्भावान्नाधिक्यम् ।।६१-६२।। 1 कर्मसामान्यभेदानाह - (मू. श्लो.) उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कर्मेतत् परापरे द्वे तु सामान्ये ।। ६४ । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy