SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ विभाग-२, षड्दर्शन समुञ्चय, लघुवृत्तिः २५३ रागद्वेषविवर्जित इति राग: सांसारिकस्नेहोऽनुग्रहलक्षणः, द्वेषो वैराग्याद्यनुबन्धान्निग्रहलक्षणः, ताभ्यां विवर्जितो रहितः । एतावेव, दुर्जयौ दुरन्तभवसंपातहेतुकतया च मुक्तिप्रतिरोधको समये प्रसिद्धौ । यदाह - "को दुक्खं पाविजा कस्स न सुक्खेहिं विम्हहो हुज्जा । को य न लभेज मुक्खं रागद्दोसा जइ न हुज्जा ।।" [उपदेशमाला-१२९] इति । तथा हतमोहमहामल्लः मोहनीयकर्मोदयात् हिंसात्मकशास्त्रेभ्योऽपि मुक्तिकाङ्क्षादिव्यामोहो मोहः स एव दुर्जेयत्वान्महामल्ल इव महामल्लः, हतो मोहमहामल्लो येनेति स तथा । रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मुक्त्यङ्गतया प्रतिभासन्ते, तत्सद्भावश्च तेषु सुज्ञेय एव । यदुक्तम् - "रागोऽङ्गनासङ्गमनानुमेयो द्वेषो द्विषाद् दारणहेतिगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवस्य स चैवमर्हन् ।।" । इति रागद्वेषमोहर हि तो भगवान् । तथा केवलज्ञानदर्शनः । धवखदिरपलाशादिव्यक्तिविशेषावबोधो ज्ञानम् । वनमिति सामान्यावबोधो दर्शनम् । केवलशब्दश्चोभयत्र संबध्यते । केवलमिन्द्रियादिज्ञानानपेक्षं ज्ञानं दर्शनं च यस्येति । केवलज्ञान-केवलदर्शनात्मको हि भगवान् करतलकलितविमलमुक्ताफलवद्रव्यपर्यायविशुद्धमखिलमिदमनवरतं जगत्स्वरूपं पश्यतीति केवलज्ञानदर्शन इति पदं साभिप्रायम् । छद्मस्थस्य हि प्रथमं दर्शनमुत्पद्यते, ततो ज्ञानं, केवलिनस्त्वादी ज्ञानं ततो दर्शनमिति । तथा सुरासुरेन्द्रसंपूज्यः । सेवावधानसावधाननिरन्तरढौकमानदासायमानदेवदानवनायकवन्दनीयः । तादृशैरपि पूज्यस्य मानवतिर्यकखेचरकिंनरनिकरसंसेव्यत्वमानुषङ्गिकमिति । तथा सद्भतार्थोपदेशकः । सद्भूतार्थान् द्रव्यपर्यायरूपान् नित्यानित्यसामान्यविशेषसदसदभिलाप्यानभिलाप्याद्यनन्तधर्मात्मकान् पदार्थानुपदिशति यः स इति । उत्पादव्ययध्रौव्यात्मकं च सदिति अभिमन्यमानो जैनः एकान्तनित्यपक्षमेकान्तानित्यपक्षं चेत्थं विघटयति । तथा हि - वस्तुनस्तावदर्थक्रियाकारित्वं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy