SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ न किश्चिद् वक्तव्यम् RANA अद्य मे सुखानुभूतिरस्ति । परमगुरुसिद्धान्तमहोदधि-आचार्यदेवश्रीप्रेमसूरीश्वराणामन्तिके संयमग्रहणानन्तरमवसम् । चतुर्दशवर्षाणि यावत् तेषां निश्रा सुलब्धा, तदा गुर्वादेशेन कानिचिद् ग्रन्थानि सर्जनविषयीभूतानि । तेषां मध्ये सटीकक्षपकश्रेणि-मूलप्रकृतिबन्धटीके च परमगुरुश्रीप्रेमसूरीश्वराणां शुभनिश्रायामेव प्रकाशिते प्रकटिते च । उपशमनाकरणस्य प्रकाशनं पञ्चदशवर्षपूर्वं सञ्जातम्, देशोपशमनाकरणस्य प्रकाशनं गतवर्षे २०६८-मध्येऽभूत् । उदयस्वामित्वस्य षट्सप्ततिगाथाः पूर्वे मया विरचिताः, संशोधिताश्च मच्छिष्येण विदुषा स्वर्गस्थमुनिराजश्री मोक्षरत्नविजयेण । तासाञ्च अनुवादादिकार्य मच्छिष्य-मुनिरश्मिरत्नविजयेनोत्पाटितम्, ब्यावरचातुर्मासावसरे प्रारब्धं तत्कार्यमनेकपाठ-पाठान्तरैः संशोधितम्, चर्चास्थानानि च चर्चितानि । मत्प्रशिष्यमुनियशरत्नविजयेन च मुनिश्रीसौम्याङ्गरत्नविजयसाहाय्येन अनेकशास्त्रपाठानि संकलय्य गुर्जरविवेचनं पदार्थनिरूपणञ्च समीचीनं कृतम्, अधुना चास्य प्रकाशनस्याऽवसरः, आशीर्वादो मे सर्वेषाम् । सर्वेऽपि कर्मक्षयं कृत्वा सिद्धिवध्वोः पतित्वमाप्नुयुरिति अभिलषेऽहम् । लि. आचार्यविजयगुणरत्नसूरिः वरमाणतीर्थम् ज्येष्ठकृष्णा षष्ठी दि. ३०-०५-२०१३, प्रतिष्ठादिन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004045
Book TitleUdayswamitvam
Original Sutra AuthorN/A
AuthorGunratnasuri, Rashmiratnasuri
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages184
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy