________________
१६८ / जैनपरम्परा और यापनीयसंघ / खण्ड २
अ०८/ विस्तृत सन्दर्भ
३
प्रथम शुभचन्द्रकृत नन्दिसंघ की गुर्वावली ( वि० सं० १५३५-१६२०)
श्रीमानशेषनरनायक-वन्दिताङ्ग्रीः श्रीगुप्तिगुप्त इति विश्रुतनामधेयः। यो भद्रबाहुमुनिपुंगव-पट्टपद्मः सूर्य्यः स वो दिशतु निर्मलसंघवृद्धिम्॥ १॥ श्रीमूलसंघेऽजनि नन्दिसंघस्तस्मिन् बलात्कारगणोऽतिरम्यः। तत्राभवत्पूर्वपदांशवेदी श्रीमाघनन्दी नरदेववन्द्यः॥ २॥ पट्टे त्तदीये मुनिमान्यवृत्तो जिनादिचन्द्रस्समभूदतन्त्रः। ततोऽभवत्पञ्चसुनामधाम श्रीपद्मनन्दी मुनिचक्रवर्ती ॥ ३॥
आचार्यः कुन्दकुन्दाख्यो वकग्रीवो महामुनिः। एलाचार्यो गृद्धपिच्छः पद्मनन्दीति तन्नुतिः॥ ४॥ . तत्त्वार्थसूत्र-कर्तृत्व-प्रकटीकृत-सन्मनाः। उमास्वातिपदाचार्यो मिथ्यात्वतिमिरांशुमान्॥ ५॥ .. लोहाचार्यस्ततो जातो जातरूपधरोऽमरैः। .. सेवनीयः समस्ताऽर्थविबोधनविशारदः॥ ६॥ ततः पट्टद्वयी जाता प्राच्युदीच्युपलक्षणात्। तेषां यतीश्वराणां स्युर्नामानीमानि तत्त्वतः॥ ७॥ यशःकीर्तिर्यशोनन्दी देवनन्दी महामतिः। पूज्यपादः पराख्येयो गुणनन्दी गुणाकरः॥ ८॥ वज्रनन्दी वज्रवृत्तिस्तार्किकाणां महेश्वरः। कुमारनन्दी लोकेन्दुः प्रभाचन्द्रो वचोनिधिः॥ ९॥ नेमिचन्द्रो भानुनन्दी सिंहनन्दी जटाधरः। वसुनन्दी वीरनन्दी रत्ननन्दी रतीशमित्॥ १० ॥ माणिक्यनन्दी मेघेन्दुः शान्तिकीर्तिर्महायशाः।। मेरुकीर्तिर्महाकीर्तिर्विश्वनन्दी विदाम्बरः॥ ११॥ श्रीभूषणः शीलचन्द्रः श्रीनन्दी देशभूषणः। अनन्तकीर्तिर्धर्मादिनन्दी नन्दीति शासनः॥ १२॥ विद्यानन्दी रामचन्द्रो रामकीर्ति रनिन्दद्यावाक् । अभयेन्दुर्नरचन्द्रो नागचन्द्रः स्थिरव्रतः ॥ १३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org