________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायामुणादयः ९३१ णमं निमिः राजा नमिः विद्याधराणामाचस्तीर्थकरश्च ॥ ६१३ ॥ अम्भिकुण्ठिकम्प्यहिभ्यो न लक्च (६१४) एभ्यः इ. नकारस्य लुक् च स्यात् । 'अभुङ् शब्दे,' अभि आभिमुख्येऽव्ययम् । अभ्यग्नि शलभाः पतन्ति । कुठ, कुठिः वृक्षः पापं वृषलः देहः गेहं कुठारश्च । कपुङ्, कपिः अमिः वानरश्च । अहुङ् अहिः सर्पः वृत्रः वप्रश्च ॥ ६१४॥ उभेर्द्वन्तौ च (६१५) 'उभत् पूरणे' अस्मादिः अस्य च द्वत्र इत्यादेशौ स्याताम् । द्वौ द्वितीयः द्विमुनि व्याकरणस्य । त्रयस्तृतीयः५ त्रिमुनि व्याकरणस्य ॥ ६१५॥ नीवीप्रहृभ्यो डित् (६१६) इः । णींग निवसति । वींक विः सन्तुवायः पक्षी उपसर्गश्च । हंग् प्रपूर्वः । प्रहिः कूपः उदपानं च ॥ ६१६ ॥ वो रिचे खरानोऽन्तश्च (६१७) विरिश्चिः ब्रह्मा ॥६१७॥ कमिवमिजमिघसिशलिफलितलितडिवजिवजिध्वजिराजिपणिवणिवदिसदिहदिहनिसहिवहितपिवपिभटिकंचिसंपतिभ्यो णित् (६१८) इः । कामिः वसुकः कामी च । वामिः स्त्री । जमू जामिः भगिनी १० तृणं जनपदश्चैकः । घासिः संग्रामः गतः अग्निः बहुभुक् च । शालिः ब्रीहिराजः । फालिः दलम् । तलण, तालिः वृक्षः । सडण, ताडिः स एव । वाजिः अश्वः पुजावसानं च । ब्राजिः पद्धतिः पिटकजातिश्च । वाजिः पताका अश्वश्च । राजिः पतिः लेखा च । पाणिः करः । 'वण शब्दे,' वाणिः वाक् । वादिः वाग्मी वीणा च । ष, सादिः अश्वारोहः सारथिश्च । हदि हादिः लूता । हनंक् , घातिः प्रहरणम् । केचित्तु हानिः अर्थनाश उच्छित्तिश्चेत्युदाहरन्ति । तत्र बाहुलकात् १५ 'णिति धात्' (४।३।१००) इति न भवति । बाहुलकादेव णित्त्वविकल्पे हनिः आयुधम् । पहि, साहिः शैलः । वाहिः अनड्वान् । तपं, तापिः दानवः । टुवपीं, वपिः पुष्करिणी । भट भृतौ' । भाटिः सुरतमूल्यम् । 'कचुङ दीप्तौ च । काश्चिः मेखला पुरी च । णित्करणादनुपान्त्यस्थापि वृद्धिः । संपूर्वः पल, संपातिः पक्षिराजः ॥ ६१८ ॥ कृशृकुटिग्रहिखन्यणिकष्यलिपलिचरिवसिगण्डिभ्यो वा (६१९) एभ्य इ. स च णिद्वा । डुकंग्, कारिः शिल्पी ।२० करिः हस्तीविष्णुश्च । शुश्, शारिः यूतोपकरणं हस्तिपर्याणं शारिका च । शरिः हिंसा शूलश्च । कुटत् , कोटिः अश्रिः अप्रभागः अष्टममकस्थानम् च । कुटिः गृहं शरीराङ्गं च । प्रहीश् , ग्राहिः पतिः । अहिः वेणुः । खनूग, खानिः खनिश्च निधिः आकरः तडागं च । अण, आणिः अणिश्च द्वारकीलिका । कष, काषिः कर्षकः । कषिः निकषोपलः काष्ठमश्वकर्णः खनित्रं च । अली, आलिः पङ्गिः सखी च । अलिः भृङ्गः। पल, पालि: जलसेतुः कर्णपर्यन्तश्च । पलि: संस्त्यायः । चर, २५ चारिः पशुभक्ष्यम् । चरिः प्राकारशिखरं विषयः वायुः केशोर्णा च । वसं, वासिः तक्षोपकरणम् । वसिः शय्या अग्निः गृहं रात्रिश्च । गडु, गण्डिः गण्डिका । णित्त्वपक्षेऽनुपान्त्यस्यापि वृद्धिः । गाण्डिः धनुष्पर्व ॥ ६१९ ॥ पादाचात्यजिभ्याम् (६२०) पादपूर्वाभ्यां केवलाभ्यां चात्यजिभ्यां णिदिः स्यात् । पादाभ्यामतति अजति वा पदातिः पदाजिः । 'पदः पादस्याज्याजिगोपहते' (३।२।९५) इति पादस्य पद्भावः । उभावपि पत्तिवाचिनौ । आतिः पक्षी । सुपूर्वात् स्वातिः३० नक्षत्रम् । आजिः सङ्ग्रामः स्पर्द्धावधिश्च ॥ ६२० ॥ नहेर्भ च (६२१) अस्माण्णिदिः भश्वास्यान्तादेशः स्यात् । नाभिः अन्त्यः कुलकरः चक्रमध्यं देहावयवश्च ॥ ६२१ ॥ अशो रश्चादिः (६२२) अशौटि, अस्माणिदिः रेफश्च धातोरादिः स्यात् । राशिः समूहः मेषादिश्च ॥ ६२२॥ कायः किरिच वा (६२३) कैं, अस्मात् कि, इकारश्चास्यान्तादेशः स्यात् । किकिः पक्षी विद्वांश्च । काकिः स्वरदोषः ॥ ६२३ ॥ वर्धरकिः (६२४) 'वर्धण् छेदनपूरणयोः' । अस्मादकि:३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org