________________
६६२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
'नहा०' सुगमम् । अशिति 'अस्तित्रुवो०' (४।४।१) इति वचादेशे 'यजादिवश' (४।१। ७२) इति पूर्वस्य य्वृति उवाच । 'यजादिव.०' (४३११७९) इति वृति द्वित्वे ऊचे । क्ये उच्यते । किरादित्वाम्बिक्ययोरभावे कर्मकर्तरि अवोचत कथा स्वयमेव । अनिट्त्वात् वक्ता वक्तुम् । 'प्रवचनीयादयः' (५।११८) इति कर्तर्यनीये प्रवचनीयो गुरुर्धर्मस्य । पक्षे कर्मणि प्रवचनीयो धर्मो ५गुरुणा । ध्यणि 'वचोऽशब्दनाग्नि' (४।१।११९) इति कत्वप्रतिषेधे वाच्यम् । शब्दसंज्ञायां तु वाक्यम् । 'त्यज्यज' (४।१।११८) इति कत्वाभावे प्रवाच्यः ग्रन्थविशेषः । अचि ब्रुव इति निपातनात् ब्राह्मणमात्मानं ब्रूते इति ब्राह्मणब्रुवः । 'वेयिवद०' (५।२।३) इति निपातनात् भूतमात्रे कानः अनूचानः । तत्र कसु०' (५।२।२) इति कसौ उचिवान् । 'दिद्युद्' (५।२।८३) इति किपि निपातनात् वचनशीलो वाक् । उणादौ नीनूरमि० (२२७) इति किति थे उक्थं साम । १० इत्यूदन्तोऽनिद १ । द्विषीक इति । द्वेष्टीत्यादि व्यक्तम् । 'ऋवर्ण०' (५।१।१७) इति ध्यणि
द्वेष्यः । 'नाम्युपान्त्य.' (५।११५४) इति के द्विषः । किपि सुद्विट् मित्रद्विट् ब्रह्मद्विट् । 'सुद्विषा.' (५।२।२६) इति अतृशि 'द्विषो वातृशः' (२।२।८४) इति वा कर्मणि षष्ठ्यां चौरस्य द्विषन् चौरं द्विषन् । 'युजभुज०' (५।२।५०) इति घिनणि द्वेषणशीलो द्वेषी । घबि द्वेषः । इति षान्तो
ऽनिट १ । दुहीक इति । दोग्धि दुग्धे इत्यादि व्यक्तम् । कर्मकर्तरि एकधाती.' (३।४।८६) इति १५विक्यात्मनेपदेषु प्राप्तेषु भूषार्थेति किरादित्वात् क्यनिषेधे दुग्धे गौः स्वयमेव । 'वरदुहो वा' ( ३।४।
९०) इति वा बिनिषेधे अदुग्ध गौः स्वयमेव । अदोहि गौः खयमेव । 'कृवृषि०' (५।११४२) इति वा क्यपि दुह्या गौः । पक्षे 'ऋवर्ण०' (५।१।१७) इति ध्यणि दोह्या । किपि गोधुग्-क् । 'दुहेर्दुघ०' (५।१११४५) कामदुधो धर्मः। 'युजभुज०' (५।२।५०) इति घिनणि दोही । बाहु
लकात् खलपवादे ने सुदोहनः । घबि दोहः । उणादौ 'कुमुद (२४४) इत्यदे निपातनात् दोहदः २० अभिलाषविशेषः । त्वष्ट्र० (८६५) इति तृप्रत्यये निपातनात् दुहिता । एवं दिहींक इति । 'ने दा०' (२।३।७९) इति णत्वे प्रणिदेग्धि 'हशिट०' (३।४।५५) इति सकि अधिक्षत् । दन्त्यादावात्मनेपदे सको वा लुकि अधिक्षावहि अदिहि । अधिक्षत अदिग्धाः । सन्दिदेह सन्दिदेहे। यङि देदिह्यते । यङ्लुपि देदिहीति देदेग्धि । उणादौ मृदिकन्दि० (४६५) इत्यले देहली द्वाराधो
दारु । लिहीक इति । लेढि लीढे । सकि अलिक्षत् । दन्त्यादावात्मनेपदे वा सको लुकि अलिबहि २५ अलिक्षावहि । अलीढ अलिक्षत । यङि लेलिह्यते । यक्लुपि लेलिहीति लेलेढि । लेढा लेदुम् ।
'ऋवर्ण०' (५।१।१७) इति ध्यणि लेह्यम् । लिहाद्यचि लेहः आलेहः । बाहुलकात् 'नाम्युपान्त्य.' (५।११५४ ) इति के लिहः । उणादौ लिहेर्जिह च (५१३) इति वे जिह्वा । इति हान्तास्त्रयोsनिटः । * एवमुभयपदिनः सप्त * ॥ ६७ ॥
अथ हादयः। ३० 'हुंक दानादनयोः'। ___ अथादाधन्तर्गणो हादयः । स च चतुर्दशात्मकस्तत्र परस्मैपदिनः षट् , आत्मनेपदिनौ द्वौ, उभयपदिनः षडिति । हुंक इति । दानमत्र हविःप्रक्षेपः, अदनं भक्षणम् । तिवादौ सूत्रम्
हवः शिति ॥ १॥ [सि० ४।१।१२] ३४ हादयः शिति द्विः स्युः । जुहोति जुहुतः । अन्तो नो लुगिति नलोपे, ह्विणोरप्वितीति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org