________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे समासप्रक्रिया । पृषोदरादयः ३२५ लाति मुहुर्मुहुर्लसतीति वा मुसलम् , अत्र मुहुःशब्दस्य मुभावः, वनशब्दस्य च सभावः, पक्षान्तरे लसयोर्विपर्ययश्च । ऊध्वौँ कर्णावस्येत्युलूकः, अत्रोवंशब्दस्योलादेशः कर्णशब्दस्य उकादेशश्च । मेहनस्य खं तस्य माला मेखला, अत्र मेहनखे शब्दे हनशब्दस्य मालाशब्दे च माशब्दस्य लोपः। को जीर्यति कुञ्जरः, अत्र कुशब्दान्मोऽन्तः । आश्वस्य विषमस्ति आशीविषः, अत्राशुशब्दस्याशीभावः; यदाप्याशिषि दंष्ट्रायां विषमस्येति तदाप्यनेन निपातनम् । बलं वर्धयति बलीवर्दः, अत्र बलस्येकारोऽन्तादेशो, वर्द्ध धकारस्य५ च दकारः । मनस ईष्टे मनीषी, अत्र मनसोऽन्यखरादिलोपः ईशेः शस्य च षः । बिलं दारयति बिडालः, अत्र बिलशब्दस्य ललोपः, उत्तरशब्दस्य च डालादेशः । मृदमालीयते डः मृणालः, अत्र मृदो दकारस्य णकारः । असृगालीयते डः सृगालः, अनादेर्लोपः । असृग्गलति वा सृगालः, अत्रासृज आद्यन्तलोपः । पुरो दाश्यते पुरोडाशः, अत्रोत्तरपदादेर्डत्वम् । अश्वस्याम्बा वडवा, अत्राश्वस्य शो लोपः, ड् चान्तः, अम्बाशब्दे च मो लोपः । शकस्य अन्धुः शकन्धुः, अत्र पूर्वपदान्तस्योत्तरपदादेर्वा १० लोपः । एवं कर्कन्धुः । अटतीत्यच् अटा, कुलानामटा कुलटा । अव् अवाक् अटन्त्यस्मिन्निति बाहुलकात् "पुन्नाम्नि घः” (५।३।१३०) इति घः, अवटः । हिनस्तीति सिंहः, अत्र सकारहकारयोर्विपर्ययः । कृतकेन शलति कृकलाशः; अत्र तकारस्य लोपः, शकारलकारयोर्विपर्ययः । भ्रमन् रौति डः भ्रमरः, अत्र नलोपः । एवम्प्रकाराः शिष्टैः प्रयुक्ताः पृषोदरादयः। मयूरमहिषादीनामुणादौ व्युत्पादितानामपीह व्युत्पादनमनेकधा शब्दव्युत्पत्तिज्ञापनार्थम् । बहुवचनमाकृतिगणार्थम् । तेन मुहूर्तम् औरग्वधो १५ अश्वत्थाम 'निर्लयनीत्यादयोऽपि द्रष्टव्याः ॥ "वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोर्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ १॥ ८९ ॥
यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे ___ राजश्रीतनयो व्यधत्त बिनयः श्रीतेजपालात्मजः । तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तापद्य समास एष विवृतः सम्पूर्णतामाश्रयत् ॥ १॥
W
१ वा हलादिः' इति णः । कृकं लासयतीति ये व्युत्पादयन्ति तन्मते दन्त्यसकारः । २ मुहरियलिस्म 'गत्यर्थः' इति क्तः प्रत्ययः । ३ आरात् वध्यते 'स्थादिभ्यः कः' तस्य गः। ४ अश्व इव तिष्ठतीति मन् । ५ निलीयतेऽस्या अनन् । ६ स प्रसिद्धोऽर्थस्तदर्थः शब्दलक्षणस्तस्यातिशयो माधुर्यादिस्तेन योगः यथा मयूर इति । अत्र हि रौतेरवर्णार्थस्यातिशयेन योगः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org