________________
३६८ सिद्धिविनिश्चयटीकायाम्
[५ वाइसिद्धिः संविदश्च तासां प्रतिभासो यथा येन विशदेतरप्रकारेण भिन्नःप्रत्यक्षतरयोः इन्द्रियशब्दज्ञानयोः तथा प्रतिभासो भिन्नः इत्यनुवर्तते ।
कारिकां विवृण्वन्नाह-'चक्षुरादि' इत्यादि । चक्षुरादिर्यस्य घ्राणादेः तस्य ज्ञानम् एकत्र ग्राह्ये प्रतिभासभेदं विशदेतरनिर्भासातिशयम् अनुभवद् यदीष्यते सौगतेन । कुतः ? ५ सामग्रीभेदात् । कथं न स्यात् स्यादेव । किम् ? इत्याह-एकविषयत्वम् । कासाम् ? [२९७ख इत्याह-प्रत्यादि (प्रत्यक्षेत्यादि) । कस्मिन्नपि ? इत्याह-प्रतिभासभेदेऽपि । ततो निराकृतमेतत्*"यौ भिन्नप्रतिभासौ प्रत्ययौ न भावक (तावैक)विषयौ यथा रूपरसप्रत्ययौ, भिन्नप्रतिभासौ च शाब्द-इन्द्रियप्रत्ययौ । तथा *"यौ एकविषयौ तौ न भिन्न प्रतिभासौ यथा
सन्निहिते नीले पुरुषद्वयस्य तत्प्रत्ययौ, एकविषयौन (च) परस्य प्रकृत अव्ययौ (प्रत्ययौ)।" १० इति ; कथम् ? एकविषयत्वेऽपि मन्देतरचक्षुषोः प्रत्ययप्रतिभासातिशयोपगमेन व्यभिचारात् ।
यस्त्वाह-प्रज्ञा क रः *"तद्विषयस्य परं प्रति असिद्धेः तत्रापि अविशदनिर्भासस्य एकविषयत्वाभावाद् अन्यत्वा (था) तदभावात् सामग्रीभेदात् तद्भावोऽखण्डैकविषयत्वेऽपि चक्षुरादिबुद्धीनां रूपादिप्रतिभासभेदः सामग्रीविशेषात् इति स्यात्" इति ; स न प्रेक्षा
वान् ; यतः अविशदनि सिनो विज्ञानाद् द्वंद्व (?) सौगतानामर्थे प्रवृत्त्यभावप्रसङ्गः । नहि १५ निर्विषयतां जानन्नेव जातस्य त नः (?) प्रेक्षाकारी प्रवर्त्तते, सर्वत्र प्रमाणपरीक्षाभावप्रसङ्गात् ।
प्रवर्त्तमाने च अविसंवादभाग् न भवेत् । भवति च, लिप्यादौ तद्व्यवहारदर्शनात् । *"ममैवं प्रतिभासोऽयम्" [प्र. वार्तिकाल० १११] इत्याद्यनुमानाद् अविंशदनिर्भासा [त्] तत्र ते प्रवर्त्तन्ते न इन्द्रियग्रामाद् इति महती काहलता ! पुनरपि अनुमाने अनवस्था । तन्न किश्चिदे
तत् । अथ स्वलक्षणविषयत्वाद् विशदेतरेन्द्रियज्ञानयोः एकविषयत्वमस्तु न प्रत्यक्षपरोक्षयोः, '२० "अवस्तुसामान्यविषयत्वात् परोक्षस्येति ; तदेवाह-विकल्प इत्यादि । अतस्मिन्न [स्वलक्षणे
तद्ग्रहात् ] स्वलक्षण [२९८ क] ग्रहात् निर्विषयत्वम् इत्येवं वेदन् स (इत्येवं वदन् ) हतो निराकृतस्त्वं पूर्वमेवेति । कुतः ? इत्यत्राह-'असाधनाङ्ग' इत्यादि । एतदुक्तं भवति-यदा [अ] वस्तुसत्सामान्यविषयो विकल्पः तदा तत्प्रभवं वचनमपि तद्विषयमिति न परमार्थसाधनाङ्गविषयमिति तदवचनात् निगृहीतेः अर्हन्न (न्) हतस्त्वम् इति । विकल्पस्य परम्परया स्वलक्षण२५ प्रतिबन्धात् तत्प्रभवस्य वचनस्यापि तत्र सं इति चेत् ; अत्राह-सम्बन्धस्य परस्पराविनाभाव
स्य एकान्तेन नियमेन [अतत्त्वरूपत्वात् ] अतत्त्वं तदवस्तुरूपत्वात् । परपरिकल्पितस्वलक्षणस्य कुतश्चिदसिद्धः कथं तत्र साक्षादन्यथा वा कस्यचित् तत्त्वतः प्रति[बन्धो] भवेत् ? तदसिद्धो (द्धौ) किं तत्त्वमिति चेत् ? अत्राह-तत्त्वम् इत्यादि । दर्शनानतिक्रमेण [यथा]दर्शनं च स्थूलादेः इति भावः । ततः किं जातम् ? इत्याह-अन्यथा इत्यादि । अन्यथा अन्येन अने
(१) नीलप्रत्ययौ । (२) पुरुषयोः । (३) प्रतिभास एवम्भूतो यः स न संस्थानवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा च तत् ॥"-प्र०वार्तिकाल. २।११। (४) अवस्तु यत् सामान्य तद्विषयत्वात् । (५) अवस्तुविषयमिति । (६) विकल्पप्रभवस्य । (७) स्वलक्षणे। (८) सम्बन्धः। (९) स्वलक्षणे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org