________________
५।२६] शब्दस्य अथवाचकत्वम्
३६५ कारगोचरात् तद्व्यवस्था अनुमानात् स्यात् परम्परया तत्प्रतिबद्धात् *"भ्रान्तिरपि सम्बन्धतः प्रमा" 'इति वचनादिति ; तत्राह-प्रतिबन्धादि इत्यादि । लिङ्गलिङ्गिनोः अविनाभावः प्रतिबन्धः आदिर्यस्य पक्षधर्मत्वादेः तस्य यो विकल्पः तद्ग्राही निश्चयः, अविकल्पस्य तत्राप्रवृत्तः स्वयमविष[ये तद]योगात् । नहि 'इदमतो जातम् , अयमस्य स्वभावो अस्य धर्मो वा' इति व्यापारो (रे) तत्सामर्थ्यम्; कारणादिपरमाणुदर्शनव्यापारस्य परं प्रत्यसिद्धः। तस्य अतिशया- ५ भावाद् अनुमानाद् भेदाभावात् । केन ? इत्याह-असमीक्षित इत्यादि । किं कस्यचित् ? न; इत्याह सर्वस्यैव । एवमुक्तं भवति-प्रतिबन्धादिविकल्पस्य मिथ्यात्वे अनुमानस्य वस्तुनि पारम्पर्येणापि न प्रतिबन्धः इति न युक्तम् *"लिङ्गलिङ्गिधियोरेवम्" [प्र. वा० २।८२] 'इत्यादि, *"मणिप्रदीपप्रभयोमणिबुद्ध्या " [प्र० वा० २।५७] इत्यादि च ।
___ यदि पुनरेतन्मतम्-न परमाणुदर्शनम् अग्निधूमयोः वृक्षशिंशपयोः, धूमपर्वतस्य अदर्शनम् , १० अपि तु स्थूलैकत्वदर्शनमेव लोकस्य तत्रैव प्रमाणादिव्यवहारात् इति, तदप्रमाणं [प्रमाणं] वा भवतः स्यात् ? प्रथमपक्षे दोषमाह-लोक इत्यादि । लोकप्रतीतिं स्थूलैकाकारसंवित्तिम् [२९५ख] किंभूता (ताम् ?) न प्रमाणं समाश्रयति । किमर्थम् ? इत्याह-परमार्थावताराय इति । द्वितीयेऽप्याह-तत्प्रमाणत्वे, क्षणक्षयादेः आदिशब्देन निरंशत्वादिपरिग्रहः । वाधनमणाव (बाधनम् , अक्रमवत् ) क्रमेणापि एकस्य अनेकाकारसिद्धेः सविकल्पकं प्रमाणं स्यादिति भावः । १५ परमार्थावताराय "तामप्रमाणं समाश्रयतः को दोषः ? इत्यत्राह-तदप्रमाणस्य इत्यादि । सा चासौ लोकप्रतीतिः अप्रमाणं च तदप्रमाणं तस्य परमार्थसाधनत्वे अभ्युपगम्यमाने कुतश्चित् तत एव लोकव्यवहारमिथ्यादेः अन्यत्रापि नित्यत्रापि" नित्यत्वादावपि प्रमाणान्वेषणं कैमर्थक्यं प्रतिपद्यते प्रमाणमन्तरेण "अन्यस्यापि सिद्धेरिति । एतदेव दर्शयन्नाह-साकल्येन इत्यादि । तत्त्वावताराय आत्मेश्वरादितत्त्वप्रवेशार्थम् अप्रमाणं सार्थकम् (सात्मक) जीवच्छरीरम्' २० इत्यादि, 'विमत्यधिकरणभावापन्नं तन्वादि बुद्धिमत्कारणम्' इत्यादि वा अनुमानम् । मिथ्याज्ञानाद् अनुमानान्न क्षणक्षयादिसिद्धिः। 'अग्निरत्र' [इत्यनु]मानात् कथमग्निसिद्धिरिति ? तथा परेणाप्युच्यते-ततो मिथ्याज्ञानाद् आत्माद्य सिद्धौ कथं क्षणक्षयादिसिद्धिरिति ? ननु यथा लोकतः क्षणक्षयादौ सत्त्वादिप्रतिबन्धसिद्धिः नैवम् आत्मादौ प्राणादिमत्त्वादेः इति चेत् ; उक्तमत्र-प्रतिबन्धेत्यादि । ___ अपरमप्युच्यते-शब्दैः इत्यादि । तत्त्वस्य क्षणक्षयादेः सम्बन्धि साधनं लिङ्गं प्रतिपिपादयिषति परं प्रति । कैः ? इत्याह शब्दैः । किंभूतैः ? इत्याह-वक्त्र इत्यादि। साधनाप्रतिबबैरिति भावः । किं पुनः तत्त्वं न साधयेत् ? साधयेदेव। कैः ? इत्याह-असाधनैः[२९६क]
(१) द्रष्टव्यम्-पृ० ८२ टि. ४ । (२) सम्बन्धादौ । (३) निर्विकल्पकप्रत्यक्षसामर्थ्यम् । (५) जैनादिकं । (५) प्रतिबन्धादिविकल्पस्य । (६) 'पारम्पर्येण वस्तुनि । प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ।' इति शेषः। (७) 'अभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।' इति शेषः। (८) एवं सति धूमपर्वतयोः अदर्शनं स्यादिति भावः। (९) स्थूलैकत्वदर्शन एव । (१०) लोकप्रतीतिम् । (११) 'नित्यत्रापि' इति व्यर्थम् । (१२) नैयायिकादेरपि नित्यतत्त्वसिद्धिः स्यात् । (१३) अविनाभाव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org