________________
५।२६]
शब्दस्य अर्थवाचकत्वम् ननु शब्दः स्वार्थे योग्यो ज्ञानकार्यजननादवसीयते, तच्च सङ्केताद् इति । कुतस्तदवसाय इति चेत् ? अत्राह-शब्दानां पूर्व जात्यपेक्षया एकवचनम् , अत्र व्यक्त्यपेक्षया बहुवचनम् । स्वतः स्वरूपतः तत्त्वं (अतत्त्व) प्रतिपादनयोग्यत्वे (त्वं) न चेत् शब्दः पराभिप्रायद्योतने । प्रयत्नैरपि समयकरणैरपि न शक्यते कर्तुं तद्योग्यत्वम् । बहुवचने, न केवलम् एकेन द्वाभ्यां वा अपि तु बहुभिरपि इति दर्शयति । तथाहि-यो यत्र स्वतोऽयोग्यः स तत्र प्रयत्नै- ५ रपि तथा न भवति यथा सिकतादिः तैले, स्वतोऽयोग्याश्च परस्य शब्दाः तत्त्वप्रतिपादने इति । शक्यते च तत्कर्तुं प्रयत्नैः, ततस्तैः (स्ते) स्वतो योग्याः, रूपादिप्रतिपत्तिविशेषस्य रूपादिशब्दान्वयदर्शनात् । तदुक्तम्-*"विशेषं कुरुते हेतुः विस्रसा परिणामिनाम् ।" इति मन्यते ।
तदनेन [एतत् ] निरस्तम् ; *"कार्यदर्शनाद् योग्यता अनुयीयते,[२९४क] योग्यतातः कार्यम् [इति] अन्योऽन्यसंश्रयात्" इति । कथम् ? योग्यतातः तत्र कार्यप्रतिपत्तेरनभ्युपगमात् , १० तत्कार्यस्य प्रत्यक्षत्वात् । केवलं तत्कार्ये (य) किं तादात्म्यादिप्रतिबन्धात् उत अन्यत इति विचारो योग्यतात इति ब्रूमः, तस्या विचारसहत्वादि [ति] स्यात् , तद्भावे (तदभावे) कुतः तत्त्वस्य स्वलक्षणस्य [व्यवस्थितिः] व्यवस्थानम् ? कुतश्चिदन्यस्य तद्व्यवस्थाहेतोः अभावादिति मन्यते । अविकल्पकप्रत्यक्षादिति चेत् ; अत्राह-प्रत्यक्षस्य सविकल्प [स्य] बौद्धं प्रति विपक्षत्वाद् अविकल्पकस्य इति गम्यते । साध्योऽप्रसिद्धः *"साध्यमप्रसिद्धम्"[न्याय- १५ वि० श्लो. १७२] इति वचनात् , विषयो निरंशक्षणिकज्ञानरूपादिलक्षणो यस्य, "अन्यस्य विकल्पविषयत्वात् तत्तथोक्तं तस्या [स्य] भावात् तथा तत्कुतः तद्व्यवस्था । यदि वा, साध्यं च तदद्वयं बुद्ध्यात्मनः पुरुषवद् अप्रसिद्धत्वात् विषयस्य स्वपराव्यवस्थापकत्वेन जडघटाविशेषात् तस्य भावात् तत्त्वादिति ग्राह्यम् ।।
स्यान्मतम्-तत्त्वतः सविकल्पस्य इतरस्य वा क्वचित् प्रमाणेन (णत्वन्न) इष्टम् अतस्तद- २० भावो नाद्वैतवादिनो दोषाय, तत्त्वाव्यवस्था वा । यत्तु इष्टं तद् व्यवहारेण *"प्रामाण्यं व्यवहारेण" [प्र० वा० १।६] इत्यभिधानात् इति वचनात् इति ; तत्राह-तत्त्व इत्यादि ।
[तत्त्ववित्त्या विना वेत्ति जगत्तत्त्वं क्षणक्षयम् ।
वक्ति वागगोचरं हेतुं साधयेत्किमसाधनैः ॥२६॥ निर्विषयं मिथ्याज्ञानम् अध्यक्षमनुमानं च स्थूलैकाकारगोचरं व्यवहारेण प्रमाणी- २५ कृत्य तत्त्वं व्यावर्णयितुमिच्छति प्रतिबन्धादिविकल्पस्य सर्वस्यैव असमीक्षित [तत्त्वार्थेन] अतिशयाभावात् परमार्थावताराय लोकप्रतीति न प्रमाणं समाश्रयति । तत्प्रमाणत्वे क्षणक्षयादेः बाधनम् । तदप्रमाणस्य कुतश्चित् परमार्थसाधनत्वे अन्यत्रापि प्रमाणान्वेषणं कैमर्थक्यं प्रतिपद्यते ? साकल्येन तत्त्वावताराय प्रतिबन्धः । वक्त्र[भिप्रायसूचकैः]
(१) प्रयत्नैरपि इत्यत्र । (२) बौद्धस्य । (३) "अत एवोक्तम्-विशेष कुरुते हेतुः विस्रसा परिणामिनाम् । मुद्गरादिघंटादीनामा न्वयव्यतिरेकवान् ॥ इति ॥"-न्यायवि. वि० प्र० पृ० ६२ । (४) योग्यताया। (५) सामान्यस्य । (६) निर्विकल्पस्य । (७) 'इतिवचनात्' इति पुनरुक्तम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org